पर्वतस्य समंतात्तु तिष्ठंत्यमरकंटके । ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेंद्रियः
सर्वहिंसानिवृत्तश्च सर्वभूतहिते रतः । एवं सर्वसमाचारः क्षेत्रपालान्परिव्रजेत्
तस्य पुण्यफलं राजन्शृणुष्वावहितो हि मे । शतं वर्षसहस्राणां स्वर्गे मोदेत पांडव
अप्सरोगणसंकीर्णे दिव्यस्त्रीपरिचारिते । दिव्यगंधानुलिप्तश्च दिव्यालंकारभूषितः
क्रीडते देवलोके तु दैवतैः सह मोदते । ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान्
नारद उवाच- नर्मदा तु नदीश्रेष्ठा पुण्या पुण्यतमा त्रिषु । मुनिभिस्तु महाभागैर्विभक्ता धर्मकांक्षिभिः
यज्ञोपवीतमात्राणि प्रविभक्तानि पांडव । तेषु स्नात्वा तु राजेंद्र सर्वपापैः प्रमुच्यते
जलेश्वरं च यत्तीर्थं त्रिषु लोकेषु विश्रुतम् । तस्योत्पत्तिं कथयतः शृणु पांडवनंदन
पुरा मुनिगणाः सर्वे सेन्द्राश्चैव मरुद्गणाः । स्तुवंति ते महात्मानं देवदेवं महेश्वरम्
स्तुवमानास्तु संप्राप्ता यत्र देवो महेश्वरः । विज्ञापयंति देवेशं सेंद्राश्चैव मरुद्गणाः । भयोद्विग्नान्विरूपाक्ष परित्रायस्व नः प्रभो
ईश्वर उवाच-। स्वागतं तु मुनिश्रेष्ठाः किमर्थमिह चागताः । किं दुःखं कोऽनुसंतापः कुतो वा भयमागतम्
कथयध्वं महाभागा एतदिच्छामि वेदितुम् । एवमुक्तास्तु रुद्रेणाकथयन्नमितव्रताः
ऋषय ऊचुः-। अपि घोरो महावीर्यो दानवो बलदर्पितः । बाणो नामेति विख्यातो यस्य वै त्रिपुरं पुरम्
गगने तु वसद्दिव्यं भ्रमते तस्य तेजसा । तस्माद्भीता विरूपाक्ष त्वामेव शरणं गताः
त्रायस्व महतो दुःखाद्देवत्वं हि परा गतिः । एवं प्रसादं देवेश सर्वेषां कर्तुमर्हसि
येन देवाः सुप्रसन्नाः सुखमेधंति शंकर । परां निर्वृतिमायांति तत्प्रभो कर्तुमर्हसि
देव उवाच-। एतत्सर्वं करिष्यामि मा विषादं करिष्यथ । अचिरेणैव कालेन कुर्यां युष्मत्सुखावहम्
आश्वासयित्वा तान्सर्वान्नर्मदातटमास्थितः । चिंतयामास सर्वेशस्तद्वधं प्रति पांडव
कथं केन प्रकारेण हंतव्यस्त्रिपुरो मया । एवं संचिंत्य भगवान्नारदं स्मरते तदा । स्मरणादेव संप्राप्तो नारदः समुपस्थितः
नारद उवाच-। आज्ञापय महादेव किमर्थं संस्मृतो ह्यहम् । किं कार्यं तु मया देव कर्तव्यं कथयस्व मे
ईश्वर उवाच-। गच्छ नारद तत्रैव यत्र तत्त्रिपुरं पुरम् । बाणस्य दानवेन्द्रस्य शीघ्रं गच्छाथ तत्कुरु
भर्तारो देवताभाश्च स्त्रियश्चाप्सरसोपमाः । तासां वै तेजसा विप्र भ्रमते त्रिपुरं दिवि
तत्र गत्वा तु विप्रेंद्र मंत्रमन्यं प्रचोदय । देवस्य वचनं श्रुत्वा मुनिस्त्वरितविक्रमः
स्त्रीणां हृदयनाशाय प्रविष्टस्तं पुरं प्रति । शोभते तत्पुरं दिव्यं नानारत्नोपशोभितम्
शतयोजनविस्तीर्णं ततो द्विगुणमायतम् । ततः पश्यति तत्रैव बाणं तु बलदर्पितम्
मालाकुंडलकेयूरैर्मुकुटेन विराजितम् । हाररत्नैश्च संछन्नं चंद्रकांतिविभूषितम्
ललनास्तस्य रत्नाढ्याः नराः कनकमंडिताः । उत्थितो नारदं दृष्ट्वा दानवेंद्रो महाबलः
बाण उवाच-। स देवर्षिः स्वयं प्राप्तो मद्गृहं प्रति संप्रति । अर्घं पाद्यं यथान्यायं क्रियतां द्विजसत्तम
चिरात्समागतो विप्र स्थीयतामिदमासनम् । एवं संभावयित्वा तु नारदं समुपस्थितम्
तस्य भार्या महादेवी अनौपम्या तु नामतः