जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा । पुष्करे गतमात्रस्य सर्वमेव प्रणश्यति
यथा सुराणां सर्वेषामादिस्तु मधुसूदनः । तथैव पुष्करो राजन्तीर्थानामादिरुच्यते
उष्ट्वा द्वादशवर्षाणि पुष्करे नियतः शुचिः । क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति
यस्तु वर्षशतं पूर्णमग्निहोत्रमुपाश्नुते । कार्तिकीं वा वसेदेकां पुष्करे सममेव तत्
दुष्करं पुष्करे गंतुं दुष्करं पुष्करे तपः । दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम्
त्रीणि शृंगाणि शुभ्राणि त्रीणि प्रस्रवणानि च । पुष्कराण्यादि तीर्थानि न विद्मस्तत्र कारणम्
उष्ट्वा द्वादशवर्षाणि नियतो नियताशनः । स मुक्तः सर्वपापेभ्यो सर्वक्रतुफलं लभेत्
वसिष्ठ उवाच- प्रदक्षिणमुपावृत्तो जंबूमार्गे समाविशेत् । जंबूमार्गं समाविश्य पितृदेवर्षिपूजितम्
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति । तत्रोष्य रजनीः पंच षष्ठकालेश्नुवन्नरः
न दुर्गतिमवाप्नोति सिद्धिं चाप्नोत्यनुत्तमाम् । जंबुमार्गादुपावृत्तो गच्छेत्तु दुलिकाश्रमम्
न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते । अगस्त्याश्रममासाद्य पितृदेवार्चने रतः
त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत् । शाकवृत्तिः फलैर्वापि कौमारं विंदते परम्
कन्याश्रमं समासाद्य श्रीपुष्टं लोकपूजितम् । धर्मारण्यं हि तत्पुण्यमाद्यं च पार्थिवर्षभ
यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते । अर्चयित्वा पितॄन्देवान्प्रयतो नियताशनः
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते । प्रादक्षिण्यं ततः कृत्वा ययातिपतनं व्रजेत्
हयमेधस्य यज्ञस्य फलमाप्नोति तत्र वै । महाकालमतो गच्छेन्नियतो नियताशनः
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् । ततो गच्छेत धर्मज्ञ स्थानं तीर्थमुमापतेः
नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् । तत्राभिगम्य चेशानं गोसहस्रफलं लभेत्
महादेवप्रसादाच्च गाणपत्यमवाप्नुयात् । समृद्धमसपत्नं तु श्रियायुक्तं नरोत्तम
नर्मदां तु समासाद्य नदीं त्रैलोक्यविश्रुताम् । तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत्
युधिष्ठिर उवाच- वसिष्ठेन दिलीपाय कथितं तीर्थमुत्तमम् । नर्मदेति च विख्यातं पापपर्वतदारणम्
भूयश्च श्रोतुमिच्छामि तन्मे कथय नारद । नर्मदायाश्च माहात्म्यं वसिष्ठोक्तं द्विजोत्तम
कथमेषा महापुण्या नदी सर्वत्र विश्रुता । नर्मदानाम विख्याता तन्मम ब्रूहिनारद
नारद उवाच-। नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी । तारयेत्सर्वभूतानि स्थावराणि चराणि च
नर्मदायास्तु माहात्म्यं वसिष्ठोक्तं मया श्रुतम् । तदेतद्धि महाराज सर्वं हि कथयामि ते
पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती । ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्म्मदा
त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम् । सद्यः पुनाति गांगेयं दर्शनादेव नार्मदम्
कलिंग देशे पश्चार्द्धे पर्वतेऽमरकंटके । पुण्या च त्रिषु लोकेषु रमणीया मनोरमा
सदेवासुरगंधर्वा ऋषयश्च तपोधनाः । तपस्तप्त्वा महाराज सिद्धिं च परमां गताः
तत्र स्नात्वा महाराज नियमस्थो जितेंद्रियः । उपोष्य रजनीमेकां कुलानां तारयेच्छतम्