प्रतिग्रहादुपावृत्तः संतुष्टो नियतः शुचिः । अहंकारनिवृत्तश्च स तीर्थफलमश्नुते
अकल्किको निराहारोऽलब्धाहारो जितेंद्रियः । विमुक्तः सर्वदोषैर्यः स तीर्थफलमश्नुते
अक्रोधनश्च राजेंद्र सत्यशीलो दृढव्रतः । आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते
ऋषिभिः क्रतवः प्रोक्ता देवेष्वपि यथाक्रमम् । फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते । बहूपकरणा यज्ञा नानासंभारविस्तराः
प्राप्यंते पार्थिवैरेते समृद्धैर्वा नरैः क्वचित् । न निर्धनैर्नरगणैरेकात्मभिरसाधनैः
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं जनेश्वर । तुल्यो यज्ञफलैः पुण्यैस्तं निबोध महीपते
ऋषीणां परमं गुह्यमिदं धर्म्मभृतां वर । तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते
अनुपोष्य त्रिरात्राणि तीर्थाभिगमनेन च । अदत्वा कांचनं गाश्च दरिद्रो नाम जायते
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः । न तत्फलमवाप्नोति तीर्थाभिगमनेन यत्
नृलोके देवलोकस्य तीर्थं त्रैलोक्यविश्रुतम् । पुष्करं तीर्थमासाद्य देवदेवसमो भवेत्
दशकोटिसहस्राणि तीर्थानां वै महीपते । सान्निध्यं पुष्करे येषां त्रिसंध्यं सूर्यवंशज
आदित्या वसवो रुद्रा साध्याश्च समरुद्गणाः । गंधर्वाप्सरसश्चैव तत्र सन्निहिताः प्रभो
यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा । दिव्ययोगा महाराज पुण्येन महता द्विजाः
मनसाप्यभिकामस्य पुष्कराणि मनीषिणः । पूयंते सर्वपापानि नाकपृष्ठे च पूज्यते
अस्मिंस्तीर्थे महाभाग नित्यमेव पितामहः । उवास परमप्रीतो देवदानवसंमतः
पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः । सिद्धिं परमिकां प्राप्ताः पुण्येन महतान्विताः
तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः । अश्वमेधाद्दशगुणं प्रवदंति मनीषिणः
अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः । तेनैति पूजिताँल्लोकान्ब्रह्मणः सदने स्थितान्
सायंप्रातः स्मरेद्यस्तु पुष्कराणि कृतांजलि । उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु पार्थिव
जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा । पुष्करे गतमात्रस्य सर्वमेव प्रणश्यति
यथा सुराणां सर्वेषामादिस्तु मधुसूदनः । तथैव पुष्करो राजन्तीर्थानामादिरुच्यते
उष्ट्वा द्वादशवर्षाणि पुष्करे नियतः शुचिः । क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति
यस्तु वर्षशतं पूर्णमग्निहोत्रमुपाश्नुते । कार्तिकीं वा वसेदेकां पुष्करे सममेव तत्
दुष्करं पुष्करे गंतुं दुष्करं पुष्करे तपः । दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम्
त्रीणि शृंगाणि शुभ्राणि त्रीणि प्रस्रवणानि च । पुष्कराण्यादि तीर्थानि न विद्मस्तत्र कारणम्
उष्ट्वा द्वादशवर्षाणि नियतो नियताशनः । स मुक्तः सर्वपापेभ्यो सर्वक्रतुफलं लभेत्
वसिष्ठ उवाच- प्रदक्षिणमुपावृत्तो जंबूमार्गे समाविशेत् । जंबूमार्गं समाविश्य पितृदेवर्षिपूजितम्
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति । तत्रोष्य रजनीः पंच षष्ठकालेश्नुवन्नरः
न दुर्गतिमवाप्नोति सिद्धिं चाप्नोत्यनुत्तमाम् । जंबुमार्गादुपावृत्तो गच्छेत्तु दुलिकाश्रमम्