तं दृष्ट्वा नियमेनाथ स्वाध्यायेन च कर्षितम् । दिलीपं नृपतिश्रेष्ठं मुनिः प्रीतमनाभवत्
वसिष्ठ उवाच- अनेन तव धर्मज्ञ प्रश्रयेण दमेन च । सत्येन च महाभाग तुष्टोस्मि तव सर्वशः
यस्येदृशस्ते धर्मोयं पितरस्तारितास्त्वया । तेन पश्यसि मां पुत्र याज्यश्चासि ममानघ
प्रीतिर्मे वर्द्धते तेऽद्य ब्रूहि किं करवाणि ते । यद्वक्ष्यसि नरश्रेष्ठ तस्य दातास्मि तेनघ
दिलीप उवाच-। वेदवेदांगतत्त्वज्ञ सर्वलोकाभिपूजित । कृतमित्येव मन्ये हि यदहं दृष्टवान्प्रभुम्
यदि त्वहमनुग्राह्यस्तव धर्म्मभृतां वर । प्रक्ष्यामि हृत्स्थं संदेहं तन्मे त्वं वक्तुमर्हसि
अस्ति मे भगवन्कश्चित्तीर्थे यो धर्मसंशयः । तदहं श्रोतुमिच्छामि पृथक्संकीर्तनं त्वया
प्रदक्षिणां यः पृथिवीं करोति द्विजसत्तम । किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तपोधन
वसिष्ठ उवाच-। कथयिष्यामि तदहमृषीणां मत्परायणम् । तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम्
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते
प्रतिग्रहादुपावृत्तः संतुष्टो नियतः शुचिः । अहंकारनिवृत्तश्च स तीर्थफलमश्नुते
अकल्किको निराहारोऽलब्धाहारो जितेंद्रियः । विमुक्तः सर्वदोषैर्यः स तीर्थफलमश्नुते
अक्रोधनश्च राजेंद्र सत्यशीलो दृढव्रतः । आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते
ऋषिभिः क्रतवः प्रोक्ता देवेष्वपि यथाक्रमम् । फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते । बहूपकरणा यज्ञा नानासंभारविस्तराः
प्राप्यंते पार्थिवैरेते समृद्धैर्वा नरैः क्वचित् । न निर्धनैर्नरगणैरेकात्मभिरसाधनैः
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं जनेश्वर । तुल्यो यज्ञफलैः पुण्यैस्तं निबोध महीपते
ऋषीणां परमं गुह्यमिदं धर्म्मभृतां वर । तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते
अनुपोष्य त्रिरात्राणि तीर्थाभिगमनेन च । अदत्वा कांचनं गाश्च दरिद्रो नाम जायते
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः । न तत्फलमवाप्नोति तीर्थाभिगमनेन यत्
नृलोके देवलोकस्य तीर्थं त्रैलोक्यविश्रुतम् । पुष्करं तीर्थमासाद्य देवदेवसमो भवेत्
दशकोटिसहस्राणि तीर्थानां वै महीपते । सान्निध्यं पुष्करे येषां त्रिसंध्यं सूर्यवंशज
आदित्या वसवो रुद्रा साध्याश्च समरुद्गणाः । गंधर्वाप्सरसश्चैव तत्र सन्निहिताः प्रभो
यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा । दिव्ययोगा महाराज पुण्येन महता द्विजाः
मनसाप्यभिकामस्य पुष्कराणि मनीषिणः । पूयंते सर्वपापानि नाकपृष्ठे च पूज्यते
अस्मिंस्तीर्थे महाभाग नित्यमेव पितामहः । उवास परमप्रीतो देवदानवसंमतः
पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः । सिद्धिं परमिकां प्राप्ताः पुण्येन महतान्विताः
तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः । अश्वमेधाद्दशगुणं प्रवदंति मनीषिणः
अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः । तेनैति पूजिताँल्लोकान्ब्रह्मणः सदने स्थितान्
सायंप्रातः स्मरेद्यस्तु पुष्कराणि कृतांजलि । उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु पार्थिव