तत्र वै वायवो वांति दिग्भ्यः सर्वाभ्य एव च । असंबंधा मुनिश्रेष्ठास्तान्निगृह्णंति ते द्विजाः
पुष्करैः पद्मसंकाशैर्विकर्षंति महाप्रभैः । शतधा पुनरेवाशु ते तान्मुंचंति नित्यशः
श्वसद्भिर्मुखनासाभ्यां दिग्गजैरिव मारुताः । आगच्छंति द्विजश्रेष्ठास्तत्र तिष्ठंति वै प्रजाः
यथोद्दिष्टं मया प्रोक्तं सनिर्माणमिदं जगत् । श्रुत्वेदं पृथिवीमानं पुण्यदं च मनोनुगम्
श्रीमांस्तरति विप्रेंद्राः सिद्धार्थः साधुसंमतः । आयुर्बलं च कीर्त्तिश्च तस्य तेजश्च वर्द्धते
यः शृणोति समाख्यातुं पर्वणीदं धृतव्रतः । प्रीयंते पितरस्तस्य तथैव च पितामहाः
ऋषय ऊचुः-। पृथिव्या हि परीमाणं संस्थानं सरितस्तथा । त्वत्तः श्रुत्वा महाभाग अमृतं पीतमेव च
तत्र भूमौ च तीर्थानि पावनानीति नः श्रुतम् । आचक्ष्व तानि सर्वाणि यथाफलकराणि च । सविशेषं महाप्राज्ञ श्रोतुमिच्छामहे तव
सूत उवाच-। धन्यं पुण्यं महाख्यानं पृष्टमेव तपोधनाः । यथामति प्रवक्ष्यामि यथायोगं यथाश्रुतम्
पुरातनं प्रवक्ष्यामि देवर्षेर्नारदस्य हि । युधिष्ठिरेण संवादं शृणु तद्द्विजसत्तमाः
हृतराज्याः पांडुपुत्रा वने तस्मिन्महारथाः । न्यवसंति महाभागा द्रौपद्या सह पांडवाः
अथापश्यन्महात्मानं देवर्षिं तत्र नारदम् । दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम्
स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुनंदनः । दिवि भाति हि दीप्तौजा देवैरिव शतक्रतुः
यथा च देवान्सावित्री याज्ञसेनी तथा पतीन् । न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा
प्रतिगृह्य ततः पूजां नारदो भगवानृषिः । आश्वासयद्धर्म्मपुत्रं युक्तरूपप्रियेण च
उवाच च महात्मानं धर्म्मराजं युधिष्ठिरम् । ब्रूहि धर्म्मभृतां श्रेष्ठ किं प्रार्थ्यं हि ददामि ते
अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह । उवाच प्रांजलिर्वाक्यं नारदं देवसंमितम्
त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते । कृतमित्येव मन्ये हि प्रसादात्तव सुव्रत
यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ । संदेहं मे मुनिश्रेष्ठ हृत्स्थं त्वं छेत्तुमर्हसि
प्रदक्षिणां यः कुरुते पृथिवीं तीर्थतत्परः । किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि
नारद उवाच-। शृणु राजन्नवहितो दिलीपेन यथा पुरा । वसिष्ठस्य सकाशाद्वै सर्वमेतदुपश्रुतम्
पुरा भागीरथीतीरे दिलीपो राजसत्तमः । धर्म्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा
शुभेदेशे महाराजपुण्ये देवर्षिपूजिते । गंगाद्वारे महातेजा देवगंधर्वसेविते
स पितॄंस्तर्पयामास देवांश्च परमद्युतिः । ऋषींश्च तर्पयामास विधिदृष्टेन कर्मणा
कस्यचित्त्वथ कालस्य जपन्नेव महामनाः । ददर्श भूतसंकाशं वसिष्ठमृषिमुत्तमम्
पुरोहितं स तं दृष्ट्वा दीप्यमानमिव श्रिया । प्रहर्षमतुलं लेभे विस्मयं परमं ययौ
उपस्थितं महाराज पूजयामास भारत । स हि धर्म्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा
शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः । नामसंकीर्त्तयामास तस्मिन्ब्रह्मर्षिसत्तमे
दिलीपोऽहं तु भद्रं ते दासोस्मि तव सुव्रत । तव संदर्शनादेव मुक्तोहं सर्वकिल्बिषैः
एवमुक्त्वा महाराज दिलीपो द्विपदां वरः । वाग्यतः प्रांजलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर