शरद्वीपे कुशस्तंबो मध्ये जनपदस्य ह । संपूज्यते शाल्मलिश्च द्वीपे शाल्मलिके द्विजाः
क्रौंचद्वीपे महाक्रौंचो गिरी रत्नचयाकरः । संपूज्यते भो विप्रेंद्राश्चातुर्वर्ण्येन नित्यदा
गोमंतः पर्वतो विप्राः सुमहान्सर्वधातुकः । यत्र नित्यं निवसति श्रीमान्कमललोचनः
मोक्षिभिः संगतो नित्यं प्रभुर्नारायणोहरिः । कुशद्वीपे तु विप्रेंद्राः पर्वतो विद्रुमैश्चितः
सुनामा च सुदुर्धर्षो द्वितीयो हेमपर्वतः । द्युतिमान्नाम विप्रेंद्रास्तृतीयः कुमुदो गिरिः
चतुर्थः पुष्पवान्नाम पंचमस्तु कुशेशयः । षष्टो हरिगिरिर्नाम षडेते पर्वतोत्तमाः
तेषामंतरविष्कंभो द्विगुणः प्रविभागशः । औद्भिदं प्रथमं वर्षं द्वितीयं रेणुमंडलम्
तृतीयं सुरथं नाम चतुर्थं लंबनं स्मृतम् । धृतिमत्पंचमं वर्षं षष्ठं वर्षं प्रभाकरम्
सप्तमं कापिलं वर्षं सप्तैते वर्षलंबकाः । एतेषु देवगंधर्वाः प्रजाश्च मुदिता द्विजाः । विहरंति रमंते च न तेषु म्रियते जनः
न तेषु दस्यवः संति म्लेच्छजात्योऽपि वा द्विजाः । गौरप्रायो जनः सर्वः सुकुमारश्च सत्तमाः
अवशिष्टेषु सर्वेषु वक्ष्यामि द्विजपुंगवाः । यथा श्रुतं महाप्राज्ञा वर्ण्यते शृणुत द्विजाः
क्रौंचद्वीपे महाभागाः क्रौंचो नाम महागिरिः । क्रौंचात्परो वामनको वामनादंधकारकः
अंधकारात्परो विप्रा मैनाकः पर्वतोत्तमः । मैनाकात्परतो विप्रा गोविंदो गिरिरुत्तमः
गोविंदात्परतश्चैव पुंडरीको महागिरिः । पुंडरीकात्परश्चापि प्रोच्यते दुंदुभिस्वनः
पुरस्ताद्द्विगुणस्तेषां विष्कंभो मुनिपुंगवाः । देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु
क्रौंचस्य कुशलो देशो वामनस्य मनोनुगः । मनोनुगात्परो देश उष्णो नाम तपोधनाः
उष्णात्परः प्रावरकः प्रावरादंधकारकः । अंधकारकदेशात्तु मुनिदेशः परः स्मृतः
मुनिदेशात्परश्चैव प्रोच्यते दुंदुभिस्वनः । सिद्धचारणसंकीर्णो गौरः प्रायोजनः स्मृतः
एते देशाः समाख्याता देवगंधर्वसेविताः । पुष्करे पुष्करो नाम पर्वतो मणिरत्नवान्
तत्र नित्यं प्रसरति स्वयं देवः प्रजापतिः । पर्युपासंति तं नित्यं देवाः सर्वे महर्षयः
वाग्भिर्मनोनुकूलाभिः पूजयंति द्विजोत्तमाः । जंबूद्वीपात्प्रवर्त्तन्ते रत्नानि विविधानि च
द्वीपेषु तेषु सर्वेषु प्रजानां मुनिसत्तमाः । विप्राणां ब्रह्मचर्येण सत्येन च दमेन च
आरोग्यायुष्प्रमाणाभ्यां द्विगुणं द्विगुणं ततः । एते जनपदा विप्रा द्वीपेषु तेषु सत्तमाः
उक्ता जनपदा येषु धर्मश्चैकः प्रवर्त्तते । ईश्वरो दंडमुद्यम्य स्वयमेव प्रजापतिः
द्वीपानेतान्मुनिवरा रक्षंस्तिष्ठति सर्वदा । स राजा स शिवो विप्राः स पिता स पितामहः
गोपायति द्विजश्रेष्ठाः प्रजाः स द्विजपंडिताः । भोजनं चात्र विप्रेंद्राः प्रजाः स्वयमुपस्थितम्
सिद्धमेव महाभागा भुंजते तद्धि नित्यदा । ततः परं महाशैलो दृश्यते लोकसंस्थितिः
चतुरस्रो महाप्राज्ञः सर्वतः परिमंडलः । तत्र तिष्ठंति विप्रेंद्राश्चत्वारो लोकसंमताः
दिग्गजा हि मुनिश्रेष्ठा वामनैरावतां जनाः । सुप्रतीकस्तथा विप्राः प्रभिन्नकरटामुखाः
तस्याहं परिमाणं न संख्यातुमिहमुत्सहे । असंख्यातः सुनित्यं हि तिर्यगूर्द्ध्वमधस्तथा