मृगाश्च ब्रह्मभूयिष्ठाः स्वकर्मनिरता द्विजाः । मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः
मानसाश्च महाभागा वैश्यधर्मोपजीविनः । सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः
शूद्रास्तु मल्लका नित्यं पुरुषा धर्मशीलिनः । न तत्र राजा विप्रेंद्रा न दंडो न च दंडिकाः
स्वधर्मेणैव धर्मज्ञास्ते रक्षंति परस्परम् । एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुम्
एतदेव च श्रोतव्यं शाकद्वीपे महौजसि
सूत उवाच-। उत्तरेषु च भो विप्रा द्वीपेषु श्रूयते कथा । एवं तत्र महाभागा ब्रुवतस्तन्निबोधत
घृततोयः समुद्रोथ दधिमंडोदकोपरः । सुरोदसागरश्चैव तथान्यो दुग्धसागरः
परस्परेण द्विगुणाः सर्वे द्वीपा द्विजर्षभाः । पर्वताश्च महाप्राज्ञाः समुद्रैः परिवारिताः
गौरस्तु मध्यमे द्वीपे गिरिर्मनःशिलो महान् । पर्वतः पश्चिमे कृष्णो नारायणसखो द्विजाः
तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः । प्रसन्नश्चाभवत्तत्र प्रजानां व्यदधात्सुखम्
शरद्वीपे कुशस्तंबो मध्ये जनपदस्य ह । संपूज्यते शाल्मलिश्च द्वीपे शाल्मलिके द्विजाः
क्रौंचद्वीपे महाक्रौंचो गिरी रत्नचयाकरः । संपूज्यते भो विप्रेंद्राश्चातुर्वर्ण्येन नित्यदा
गोमंतः पर्वतो विप्राः सुमहान्सर्वधातुकः । यत्र नित्यं निवसति श्रीमान्कमललोचनः
मोक्षिभिः संगतो नित्यं प्रभुर्नारायणोहरिः । कुशद्वीपे तु विप्रेंद्राः पर्वतो विद्रुमैश्चितः
सुनामा च सुदुर्धर्षो द्वितीयो हेमपर्वतः । द्युतिमान्नाम विप्रेंद्रास्तृतीयः कुमुदो गिरिः
चतुर्थः पुष्पवान्नाम पंचमस्तु कुशेशयः । षष्टो हरिगिरिर्नाम षडेते पर्वतोत्तमाः
तेषामंतरविष्कंभो द्विगुणः प्रविभागशः । औद्भिदं प्रथमं वर्षं द्वितीयं रेणुमंडलम्
तृतीयं सुरथं नाम चतुर्थं लंबनं स्मृतम् । धृतिमत्पंचमं वर्षं षष्ठं वर्षं प्रभाकरम्
सप्तमं कापिलं वर्षं सप्तैते वर्षलंबकाः । एतेषु देवगंधर्वाः प्रजाश्च मुदिता द्विजाः । विहरंति रमंते च न तेषु म्रियते जनः
न तेषु दस्यवः संति म्लेच्छजात्योऽपि वा द्विजाः । गौरप्रायो जनः सर्वः सुकुमारश्च सत्तमाः
अवशिष्टेषु सर्वेषु वक्ष्यामि द्विजपुंगवाः । यथा श्रुतं महाप्राज्ञा वर्ण्यते शृणुत द्विजाः
क्रौंचद्वीपे महाभागाः क्रौंचो नाम महागिरिः । क्रौंचात्परो वामनको वामनादंधकारकः
अंधकारात्परो विप्रा मैनाकः पर्वतोत्तमः । मैनाकात्परतो विप्रा गोविंदो गिरिरुत्तमः
गोविंदात्परतश्चैव पुंडरीको महागिरिः । पुंडरीकात्परश्चापि प्रोच्यते दुंदुभिस्वनः
पुरस्ताद्द्विगुणस्तेषां विष्कंभो मुनिपुंगवाः । देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु
क्रौंचस्य कुशलो देशो वामनस्य मनोनुगः । मनोनुगात्परो देश उष्णो नाम तपोधनाः
उष्णात्परः प्रावरकः प्रावरादंधकारकः । अंधकारकदेशात्तु मुनिदेशः परः स्मृतः
मुनिदेशात्परश्चैव प्रोच्यते दुंदुभिस्वनः । सिद्धचारणसंकीर्णो गौरः प्रायोजनः स्मृतः
एते देशाः समाख्याता देवगंधर्वसेविताः । पुष्करे पुष्करो नाम पर्वतो मणिरत्नवान्
तत्र नित्यं प्रसरति स्वयं देवः प्रजापतिः । पर्युपासंति तं नित्यं देवाः सर्वे महर्षयः