महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः । प्रियदर्शा वपुष्मंतो महावीर्य्या धनुर्धराः
वीरा हि युधि जायंते क्षत्रियाः शूरसंमताः । त्रेतायां क्षत्रियास्तावत्सर्वे वै चक्रवर्तिनः
सर्ववर्णाश्च जायंते सदैव द्वापरे युगे । महोत्साहा वीर्यवंतः परस्परवधैषिणः
तेजसांधेनसंयुक्ताः क्रोधनाः पुरुषाः किल । लुब्धाश्चानृतकाश्चैव तिष्ये जायंति भो द्विजाः
ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव च । तिष्ये भवंति भूतानां रागो लोभश्च सत्तमाः
संक्षेपो वर्त्तते विप्रा द्वापरे युगमध्यगे । गुणोत्तरं हैमवतं हरिवर्षं ततः परम्
ऋषय ऊचुः-। जंबूखंडस्त्वया प्रोक्तो यथावदिह सत्तमः । विष्कंभस्य च प्रब्रूहि परिमाणं हि तत्त्वतः
समुद्रस्य प्रमाणं च सम्यगच्छिद्र दर्शनः । शाकद्वीपं च नो ब्रूहि कुशद्वीपं च धार्मिकम्
शाल्मलं चैव तत्त्वेन क्रौंचद्वीपं तथैव च । सूत उवाच-। विप्राः सुबहवो द्वीपाः यैरिदं संततं जगत् । सप्तद्वीपान्प्रवक्ष्यामि शृणुध्वं द्विजपुंगवाः
अष्टादशसहस्राणि योजनानि द्विजोत्तमाः । षट्शतानि च पूर्णानि विष्कंभो जंबुपर्वतः
लवणस्य समुद्रस्य विष्कंभो द्विगुणः स्मृतः । नानाजनपदाकीर्णो मणिविद्रुमचित्रितः
नैकधातुविचित्रैश्च पर्वतैरुपशोभितः । सिद्धचारणसंकीर्णैः सागरः परिमंडलः
शाकद्वीपं च वक्ष्यामि यथावदिह सत्तमाः । शृणुताद्य यथान्यायं ब्रुवतो मम धार्मिकाः
जंबुद्वीपप्रमाणेन द्विगुणः स द्विजर्षभाः । विष्कंभेन महाभागाः सागरोऽपि विभागशः
क्षीरोदो मुनिशार्दूला येन संपरिवारितः । तत्र पुण्याजनपदास्तत्र न म्रियते जनः
कुत एव हि दुर्भिक्षं क्षमा तेजोयुता हि ते । शाकद्वीपस्य संक्षेपो यथावन्मुनिसत्तमाः । उक्त एष महाभागाः किमन्यत्कथयामि वः
ऋषय ऊचुः-। शाकद्वीपस्य संक्षेपो यथावदिह धार्मिक । उक्तस्त्वया महाप्राज्ञ विस्तरं ब्रूहि तत्त्वतः
सूत उवाच-। तथैव पर्वता विप्राः सप्तात्र मणिपर्वताः । रत्नाकरास्तथा नद्यस्तेषां नामानि वर्णये
अतीवगुणवत्सर्वं तत्त्वं पृच्छथ धार्मिकाः । देवर्षिगंधर्वयुतः प्रथमो मेरुरुच्यते
प्रागायतो महाभागा मलयोनाम पर्वतः । ततो मेघाः प्रवर्त्तंते प्रभवंति च सर्वशः
ततः परेण मुनयो जलधारो महागिरिः । ततो नित्यमुपादत्ते वासवः परमं जलम्
ततो वर्षं प्रभवति वर्षाकाले द्विजोत्तमाः । उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितम्
रेवती दिवि नक्षत्रं पितामहकृतो विधिः । उत्तरेण तु विप्रेंद्राः श्यामो नाम महागिरिः
नवमेघप्रभः प्रांशुः श्रीमानुज्ज्वलविग्रहः । यतः श्यामत्वमापन्नाः प्रजा मुदितमानसाः
ऋषय ऊचुः-। सुमहान्संशयोऽस्माकं प्राप्तोयं सूत यत्त्वया । प्रजाः कथं सूत सम्यक्संप्राप्ताः श्यामतामिह
सूत उवाच-। सर्वेष्वेव महाप्राज्ञा द्वीपेषु मुनिपुंगवाः । गौरः कृष्णश्च पतगस्तयोर्वर्णांतरे द्विजाः
श्यामो यस्मात्प्रवृत्तो वै तस्मात्श्यामगिरिः स्मृतः । ततः परं मुनिश्रेष्ठा दुर्गशैलो महोदयः
केशरी केशरयुतो यतो वातः प्रवर्त्तते । तेषां योजनविष्कंभो द्विगुणः प्रविभागशः
वर्षाणि तेषु विप्रेंद्राः संप्रोक्तानि मनीषिभिः । महामेरुर्महाकाशो जलदः कुमुदोत्तरम्
जलधारो महाप्राज्ञः सुकुमार इति स्मृतः । रेवतस्य तु कौमारः श्यामश्च मणिकांचनः