बहिर्गिर्य्योंगमलदा मगधा मालवार्घटाः । सत्त्वतराः प्रावृषेयाः भार्गवाश्च द्विजर्षभाः
पुंड्रा भार्गाः किराताश्च सुदेष्णा भासुरास्तथा । शका निषादा निषधास्तथैवानर्त नैऋताः
पूर्णलाः पूतिमत्स्याश्च कुंतला कुशकास्तथा । तरिग्रहाश्शूरसेना ईजिकाः कल्पकारणाः
तिलभागामसाराश्च मधुमत्ताः ककुंदकाः । काश्मीराः सिंधुसौवीरा गांधारा दर्शकास्तथा
अभीसाराः कुद्रुताश्च सौरिला बाह्लिकास्तथा । दर्वी च मालवा दर्वा वातजामरथोरगाः
बलरट्टास्तथा विप्राः सुदामानः मुमल्लिकाः । बंधाकरीकषाश्चैव कुलिंदा गंधिकास्तथा
वनायवोदशाः पार्श्वरोमाणः कुशबिंदवः । काच्छा गोपालकच्छाश्च जांगलाः कुरुवर्णकाः
किराताबर्बराः सिद्धा वैदेहास्ताम्रलिप्तिकाः । औड्रम्लेच्छाः ससैरिंद्राः पार्वतीयाश्च सत्तमाः
अथापरे जनपदा दक्षिणा मुनिपुंगवाः । द्रविडाः केरलाः प्राच्या मूषिका बालमूषिकाः
कर्णाटका माहिषका विकंधा मूषिकास्तथा । झल्लिकाः कुंतलाश्चैव सौहृदानलकाननाः
कौक्कुटकास्तथा बोलाः कोकणा मणिवालकाः । समंगा कनकाश्चैव कुंकुरांगारमारिषाः
ध्वजिन्युत्सवसंकेतास्त्रिवर्गा माल्यसेनयः । व्यूढकाः कोरकाः प्रोष्टाः संगवेगधरास्तथा
तथैव विंद्यरुलिकाः पुलिंदा बल्वलैः सह । मालवा मलराश्चैव तथैवापरवर्तकाः
कुलिंदाः कालदाश्चैव चंडकाः कुरटास्तथा । मुशलास्तनवालाश्च सतीर्था पूतिसृंजयाः
अनिदायाः शिवाटाश्च तपनाः सूतपास्तथा । ऋषिकाश्च विदर्भाश्च स्तंगना परतंगकाः
उत्तराश्चापरेम्लेच्छा जना हि मुनिपुंगवाः । जवनाश्च सकांबोजा दारुणा म्लेच्छजातयः
सकृघृहाः कुलट्याश्च हूणा पारसिकैः सह । तथैव रमणाश्चान्यास्तथा च दशमालिकाः
क्षत्रियोपनिवेशाश्च वैश्यशूद्र कुलानि च । शूराभीराश्च दरदाः काश्मीराः पशुभिः सह
खांडीकाश्च तुषाराश्च पद्मगा गिरिगह्वराः । आद्रेयाः सभिरादाजास्तथैव स्तनपोषकाः
द्रोषकाश्च कलिंगाश्च किरातानां च जातयः । तोमरा हन्यमानाश्च तथैव करभंजकाः
एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च । उद्देशमात्रेण मया देशाः संकीर्तिता द्विजाः । यथागुणबलं चापि त्रिवर्गस्य महाफलम्
ऋषय ऊचुः-। भारतस्यास्य वर्षस्य तथा हैमवतस्य च । प्रमाणमायुषः सूत बलं चापि शुभाशुभम्
अनागतमतिक्रांतं वर्तमानं च सत्तम । आचक्ष्व नो विस्तरेण हरिवर्षं तथैव च
सूत उवाच-। चत्वारि भारते वर्षे युगानि मुनिपुंगवाः । कृतं त्रेता द्वापरं च तिष्यं च द्विजसत्तमाः
पूर्वे कृतयुगं नाम ततस्त्रेतायुगं द्विजाः । तत्पश्चाद्द्वापरं चाथ ततस्तिष्यः प्रवर्तते
चत्वारि तु सहस्राणि वर्षाणां मुनिपुंगवाः । आयुः संख्या कृतयुगे संख्याता हि तपोधनाः
तथा त्रीणि सहस्राणि त्रेतायामायुषो विदुः । द्वे सहस्रे द्वापरे तु भुवि तिष्ठंति सांप्रतम्
तत्प्रमाणस्थितिर्ह्यस्ति तिष्ये तु मुनिपुंगवाः । गर्भस्थाश्च म्रियंतेऽत्र तथा जाता म्रियंति च
महाबला महासत्त्वाः प्रज्ञागुणसमन्विताः । प्रजायंते च जाताश्च शतशोऽथ सहस्रशः
द्विजाः कृतयुगे विप्रा बलिनः प्रियदर्शनाः । प्रजायंते च जाताश्च मुनयो वै तपोधनाः