महादेव उवाच। शृणु देवि प्रवक्ष्यामि व्रतं त्रैलोक्यदुर्लभम् । यं श्रुत्वा मुच्यते लोको ब्रह्महत्यादिपातकात्
उत्पतिः स्वप्रकाशस्य भक्तानां सुखहेतवे । तिथिर्वापि समासो वै संजातः पुण्यकारकः
यस्य नाम गृणन्देवि मुक्तिं लभति शाश्वतीम् । स एव परमात्मा च कारणानां च कारणम्
विश्वात्मा विश्वरूपी च सर्वेषां भगवान्प्रभुः । द्वादशार्का धृता येन नृसिंहेन महात्मना । स एव प्रकटीजातो भक्तानां शमभीप्सया
पार्वत्युवाच। अवतारा ह्यसंख्याताः कथिताः सुरसत्तम । नृसिंहाख्यं परं धाम वद विश्वेश्वर प्रभो । येन विज्ञानमात्रेण सुख लोकमवाप्नुयात्
महादेव उवाच। हिरण्यकशिपुं हत्वा देवदेवं जगद्गुरुम् । सुखासीनं तदुत्संगे स्थितो वचनमब्रवीत्
प्रह्लादो ज्ञानिनां श्रेष्ठः पितॄहंतारमुत्तमम्
प्रह्लाद उवाच। नमस्ते भगवन्विष्णो नृसिंहाद्भुतरूपिणे । त्वद्भक्तोहं सुरश्रेष्ठ त्वां पृच्छामि च तत्वतः
स्वामिंस्त्वयि ममाभिन्ना भक्तिर्जाता ह्यनेकधा । कथं तेऽहं प्रियो जातः कारणं वद मे प्रभो
नृसिंह उवाच। कथयामि महाप्राज्ञ शृणुष्वैकाग्रमानसः । भक्तेर्यत्कारणं वत्स प्रियत्वस्य च यत्पुनः
पुरा कस्य द्विजस्यापि जातस्त्वं नाप्यधीतवान् । नाम्ना तु वसुदेवो हि वेश्यायामति लंपटः
तस्मिन्जन्मनि नैवं च चकार सुकृतं कियत् । भुक्त्वा मधु घृतं चैव वेश्यासंगमलालसः
मद्व्रतस्य प्रभावेन भक्तिर्जाता तवानघ । प्रह्लादोवाच। विस्तराद्वद देवेश कस्य पुत्रस्य किं व्रतम्
वेश्यायां वर्तमानेन कथंचिद्धि कृतं मया । ममोपरि कृपां कृत्वा सर्वं कथय सांप्रतम्
नृसिंह उवाच। सृष्ट्यर्थं तु पुरा ब्रह्मा चक्रे ह्येतदनुत्तमम् । मद्व्रतस्य प्रभावेन निर्मितं सचराचरम्
ईश्वरेण व्रतं चीर्णं वधार्थं त्रिपुरस्यच । व्रतस्यास्यप्रभावेन त्रिपुरस्तु निपातितः
अन्यैश्च बहुभिर्देवैरृषिभिश्च पुरातनैः । राजभिश्च महाप्राज्ञैर्विहितं व्रतमुत्तमम्
व्रतस्यास्य प्रभावेन सर्वे सिद्धिमवाप्नुयुः । मम ते वै प्रिया जाता दिवि भोगाननेकशः
भुक्त्वा मयि विलीनास्तु प्रह्लाद त्वं विशस्व माम् । कार्यार्थमवतारस्ते मच्छरीरत्पृथग्यतः
न तेषां पुनरावृत्तिर्महाकल्पशतैरपि । दरिद्रो लभते लक्ष्मीं धनदस्य च यादृशी
ततः कामी लभेत्कामं राज्यार्थी राज्यमुत्तमम् । आयुष्कामो लभेदायुर्यादृशं च शिवस्य हि
अवैधव्यकरं स्त्रीणां पुत्रदं भाग्यदं तथा । धनधान्यकरं चैव तथाशोकविनाशनम्
स्त्रियो वा पुरुषा वापि कुर्वंति व्रतमुत्तमम् । तेभ्यो ददाम्यहं सौख्यं भुक्ति मुक्ति फलं तथा
बहुनोक्तेन किं वत्स व्रतस्यास्य फलस्य हि । मद्व्रतस्य फलं वक्तुं नाहं शक्तो न शंकरः
प्रह्लाद उवाच। भगवंस्त्वत्प्रसादेन श्रुतं व्रतमनुत्तमम् । व्रतस्यास्य फलं श्रोतुं त्वयि मे भक्ति कारणम्
अधुना श्रोतुमिच्छामि व्रतस्यास्य विधिं परम् । कस्मिन्मासे भवेदेव कस्मिंश्चिद्वासरे प्रभो
एतद्विस्तरतो देव वक्तुमर्हसि सांप्रतम् । विधिना येन वै स्वामिन्समग्रफलभाग्भवेत्
नृसिंह उवाच। प्रह्लाद वत्स भद्रं ते शृणुष्वैकमना व्रतम् । वैशाखेसित पक्षे तु चतुर्दश्यां समाचरेत्
ममाविर्भावसंयुक्तं मम संतुष्टिकारणम् । शृणु पुत्र ममोत्पत्तिं भक्तानां सुखहेतवे
पश्चिमायां दिशायां च संजातं कारणांतरात् । मौलिस्तानमिदं क्षेत्रं पवित्रं पापनाशनम्