देवलोकच्युताः सर्वे तथा विरजसो द्विजाः । त्रयोदशसहस्राणि वर्षाणां ते द्विजोत्तमाः
आयुःप्रमाणं जीवंति नरा धार्मिकपुंगवाः । क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः
हरिस्तिष्ठति वैकुंठः शकटे कनकामये । अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम्
अग्निवर्णं महातेजो जांबूनदविभूषितम् । स प्रभुः सर्वभूतानां विभुश्च द्विजसत्तमाः
संक्षेपे विस्तरे चैव कर्ता कारयिता तथा । पृथिव्यापस्तथाकाशं वायुस्तेजश्च सत्तमाः
स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः
ऋषय ऊचुः-। यदिदं भारतं वर्षं पुण्यं पुण्यविधायकम् । तत्सर्वं नः समाचक्ष्व त्वं हि नो बुद्धिमान्मतः
सूत उवाच-। अत्र ते कीर्त्तयिष्यामि वर्षं भारतमुत्तमम् । प्रिय मित्रस्य देवस्य मनोर्वैवस्वतस्य च
पृथोश्च प्राज्ञ वै न्यस्य तथैक्ष्वाकोर्महात्मनः । ययातेरंबरीषस्य मांधातुर्नहुषस्य च
तथैव मुचुकुंदस्य कुबेरोशीनरस्य च । ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा
कुशिकस्यैव राजर्षेर्गाधेश्चैव महात्मनः । सोमस्य चैव राजर्षेर्दिलीपस्य तथैव च
अन्येषां च महाभागाः क्षत्रियाणां बलीयसाम् । सर्वेषामेव भूतानां प्रियं भारतमुत्तमम्
ततो वर्षं प्रवक्ष्यामि यथाश्रुतमहो द्विजाः । महेंद्रो मलयःसह्यः शुक्तिमानृक्षवानपि
विंध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः । तेषां सहस्रशो विप्रा पर्वतास्ते समीपतः
अविज्ञाताः सारवंतो विपुलाश्चित्रसानवः । अन्ये तु ये परिज्ञाता ह्रस्वा ह्रस्वोपजीविनः
आर्यम्लेच्छसधर्माणस्ते मिश्राः पुरुषा द्विजाः । नदीं पिबंति विमलां गंगां सिंधुंसरस्वतीम्
गोदावरीं नर्मदां च बहूदां च महानदीम् । शतद्रुं चंद्रभागां च यमुनां च महानदीम्
दृषद्वतीं वितस्तां च विपापां स्वच्छवालुकाम् । नदीं वेत्रवतीं चैव कृष्णां वेणीं च निम्नगाम्
इरावतीं वितस्तां च पयोष्णीं देविकामपि । वेदस्मृतिं वेदशिरां त्रिदिवां सिंधुला कृमिम्
करीषिणीं चित्रवहां त्रिसेनां चैव निम्नगाम् । गोमतीं धूतपापां च चंदनां च महानदीम्
कौशिकीं त्रिदिवां हृद्यां नाचितां रोहितारणीम् । रहस्यां शतकुंभां च सरयूं च द्विजोत्तमाः
चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा । शरावतीं पयोष्णीं च भीमां भीमरथीमपि
कावेरीं चुलुकां चापि तापीं शतमलामपि । नीवारां महितां चापि सुप्रयोगां तथा नदीम्
पवित्रां कृष्णलां सिंधुं वाजिनीं पुरमालिनीम् । पूर्वाभिरामां वीरां च भीमां मालावतीं तथा
पलाशिनीं पापहरां महेंद्रां पटलावतीम् । करीषिणीमसिक्नीं च कुशचीरीं महानदीम्
मरुतां प्रवरां मेनां हेमां घृतवतीं तथा । अनावतीमनुष्णां च सेव्यां कापीं च सत्तमाः
सदावीरामधृष्यां च कुशचीरां महानदीम् । रथचित्रां ज्योतिरथां विश्वामित्रां कपिंजलाम्
चंद्रावहफलद्यं चैव कुचीरामंबुवाहिनीम् । वैनदीं पिंगलां वेणां तुंगवेगां महानदीम्
विदिशां कृष्णवेणां च ताम्रां च कपिलामपि । धेनुं सकामां वेदस्वां हविःस्रावां महापथाम्
शिप्रां च पिच्छलां चैव भारद्वाजीं च निम्नगाम् । कौर्णिकीं निम्नगां शोणां बाहुदामथ चंद्रमाम्