सर्वकामफलः पुण्यः सिद्धचारणसेवितः । तस्य नाम्ना समाख्यातो जंबूद्वीपः सनातनः
योजनानां सहस्रं च शतं च द्विजसत्तमाः । तथा माल्यवतः शृंगे पूर्वे पूर्वानुगांतकाः
योजनानां सहस्राणि पंचाशन्माल्यवान्द्विजाः । महारजतसंकाशा जायंते तत्र मानवाः
ब्रह्मलोकच्युताः सर्वे सर्वे च ब्रह्मवादिनः । तपस्तप्यंति ते दिव्यं भवंति ह्यूर्ध्वरेतसः
रक्षणार्थं तु भूतानां प्रविशंति दिवाकरम् । षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च
अरुणस्याग्रतो यांति परिवार्य दिवाकरम् । षष्टिवर्षसहस्राणि षष्टिरेव शतानि च
आदित्यतापतप्तास्ते विशंति शशिमंडलम्
ऋषय ऊचुः-। वर्षाणां चैव नामानि पर्वतानां च सत्तम । आचक्ष्व नो यथातत्वं ये च पर्वतवासिनः
सूत उवाच-। दक्षिणेन तु श्वेतस्य निषधस्योत्तरेण तु । वर्षं रमणकं नाम जायंते तत्र मानवाः
शुक्लाभिजनसंपन्नाः सर्वे ते प्रियदर्शनाः । निःसपत्नाश्च ते सर्वे जायंते तत्र मानवाः
दशवर्षसहस्राणि शतानि दशपंच च । जीवंति ते महाभागा नित्यं मुदितमानसाः
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु । वर्षं हिरण्मयं नाम यत्र हैरण्वती नदी
यत्र चायं महाप्राज्ञाः पक्षिराट्पतगोत्तमः । यज्ञानुगा विप्रवरा धन्विनः प्रियदर्शनाः
महाबलास्तत्र जना विप्रा मुदितमानसाः । एकादशसहस्राणि वर्षाणां ते तपोधनाः
आयुःप्रमाणं जीवंति शतानि दश पंच च । शृंगाणि च पवित्राणि त्रीण्येव द्विजपुंगवाः
एकं मणिमयं तत्र तथैकं रुक्ममद्भुतम् । सर्वरत्नमयं चैकं भवनैरुपशोभितम्
तत्र स्वयं प्रभादेवी नित्यं वसति शंडिनी । उत्तरेण तु शृंगस्य समुद्रांते द्विजोत्तमाः
वर्षमैरावतं नाम तस्माच्छृंगवतः परम् । न तु तत्र सूर्यगतिर्जीर्यंते न च मानवाः
चंद्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः । पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः
पद्मपत्रसुगंधाश्च जायंते तत्र मानवाः । अनिष्पन्ना नष्टगंधा निराहारा जितेंद्रियाः
देवलोकच्युताः सर्वे तथा विरजसो द्विजाः । त्रयोदशसहस्राणि वर्षाणां ते द्विजोत्तमाः
आयुःप्रमाणं जीवंति नरा धार्मिकपुंगवाः । क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः
हरिस्तिष्ठति वैकुंठः शकटे कनकामये । अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम्
अग्निवर्णं महातेजो जांबूनदविभूषितम् । स प्रभुः सर्वभूतानां विभुश्च द्विजसत्तमाः
संक्षेपे विस्तरे चैव कर्ता कारयिता तथा । पृथिव्यापस्तथाकाशं वायुस्तेजश्च सत्तमाः
स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः
ऋषय ऊचुः-। यदिदं भारतं वर्षं पुण्यं पुण्यविधायकम् । तत्सर्वं नः समाचक्ष्व त्वं हि नो बुद्धिमान्मतः
सूत उवाच-। अत्र ते कीर्त्तयिष्यामि वर्षं भारतमुत्तमम् । प्रिय मित्रस्य देवस्य मनोर्वैवस्वतस्य च
पृथोश्च प्राज्ञ वै न्यस्य तथैक्ष्वाकोर्महात्मनः । ययातेरंबरीषस्य मांधातुर्नहुषस्य च
तथैव मुचुकुंदस्य कुबेरोशीनरस्य च । ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा