तत्र दिव्या त्रिपथगा प्रथमं तु प्रतिष्ठिता । ब्रह्मलोकादपाक्रांता सप्तधा प्रतिपद्यते
वटोदका सा नलिनी पार्वती च सरस्वती । जंबूनदी च सीता च गंगा सिंधुश्च सप्तमी
अचिंत्या दिव्यसंज्ञा सा प्रभावैश्च समन्विता । उपास्यते यत्र सत्रं सहस्रयुगपर्यये
दृश्यादृश्या च भवति तत्रतत्र सरस्वती । एता दिव्याः सप्तगंगास्त्रिषुलोकेषु विश्रुताः
रक्षांसि वै हिमवती हेमकूटे च गुह्यकाः । सर्पा नागाश्च निषधे गोकर्णं च तपोवनम्
देवासुराणां सर्वेषां श्वेतः पर्वतमुच्यते । गंधर्वा निषधे नित्यं नीले ब्रह्मर्षयस्तथा
शृंगवांस्तु महाभागा देवानां प्रतिसंचरः । इत्येतानि महाभागाः सप्तवर्षाणि भागशः
भूतान्युपनिविष्टानि गतिमंति ध्रुवाणि च । तेषामृद्धिर्बहुविधा दृश्यते देवमानुषा
अशक्यं परिसंख्यातुं श्रद्धे या तु विभूषिता । यां तु पृच्छथ मां विप्रा दिव्यमेनां शशाकृतिम्
पार्श्वे शशस्य द्वे वर्षे उक्ते ये दक्षिणोत्तरे । कर्णे तु नागद्वीपश्च काश्यपद्वीप एव च
कर्णद्वीपशिलो विप्राः श्रीमान्मलयपर्वतः । एतद्द्वितीयं द्वीपस्य दृश्यते शशिसंस्थितम्
ऋषय ऊचुः-। मेरोरथोत्तरं पश्चात्पूर्वमाचक्ष्व सूततः । निखिलेन महाबुद्ध माल्यवंतं च पर्वतम्
सूत उवाच-। दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे । उत्तराः कुरवो विप्राः पुण्याः सिद्धनिषेविताः
तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः । पुष्पाणि च सुगंधीनि रसवंति फलानि च
सर्वकामफलास्तत्र केचिद्वृत्या द्विजोत्तमाः । अपरे क्षीरिणो नाम वृक्षास्तत्र द्विजोत्तमाः
प्रक्षरंति सदा क्षीरं तत्र सर्वेऽमृतोपमम् । वस्त्राणि च प्रसूयंते फलेष्वाभरणानि च
सर्वा मणिमयी भूमिः सूक्ष्मकांचनवालुका । सर्वर्तुसुखसंस्पर्शा निष्फलाश्च तपोधनाः
देवलोकच्युताः सर्वे जायंते तत्र मानवाः । शुक्लाभिजनसंपन्नाः सर्वसुप्रियदर्शनाः
मिथुनानि च जायंते स्त्रियश्चाप्सरसोपमाः । तेषां ते क्षीरिणां क्षीरं पिबंत्यमृतसंनिभम्
मिथुनं जायते काले समंताच्च प्रवर्द्धते । तुल्यरूपगुणोपेतं समवेशं तथैव च
एकमेवानुरूपं च चक्रवाकसमं द्विजाः । निरामयाश्च ते लोका नित्यं मुदितमानसाः
दशवर्षसहस्राणि दशवर्षशतानि च । जीवंति ते महाभागा न चान्योन्यं जहत्युत
भारुंडा नाम शकुनास्तीक्ष्णतुंडा महाबलाः । तान्निर्हरंतीहमृतान्दरीषु प्रक्षिपंति च
उत्तराःकुरवो विप्रा व्याख्यातास्ते समासतः । मेरुपार्श्वमहं पूर्वं प्रवक्ष्यामि यथातथम्
तस्य मूर्द्धाभिषेकस्तु भद्राश्वस्य तपोधनाः । भद्रशालवनं यत्र कालाम्राश्च महाद्रुमाः
कालाम्रास्तु महाभागा नित्यंपुष्पफलाः शुभाः । द्रुमाश्च योजनोत्सेधाः सिद्धचारणसेविताः
तत्र ते पुरुषाः श्वेतास्तेजोयुक्तमहाबलाः । स्त्रियः कुमुदवर्णाश्च सुंदर्यः प्रियदर्शनाः
चंद्रवर्णाश्चतुर्वर्णाः पूर्णचंद्रनिभाननाः । चंद्रशीतलगात्राश्च नृत्यगीतविशारदाः
दशवर्षसहस्राणि तत्रायुर्द्विजसत्तमाः । कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु । सुदर्शनो नाम महान्जंबूवृक्षः सनातनः