पश्यंति नहि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः । तस्य शैलस्य शिखरात्क्षीरधारा द्विजोत्तमाः
विश्वरूपात्परमिता भीमनिर्घातनिस्वना । पुण्यापुण्यतमैर्जुष्टा गंगा भागीरथी शुभा
प्लवंती च प्रवेगेन ह्रदे चंद्रमसः शुभे । तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः
तां धारयामास तदा दुर्द्धरां पर्वतैरपि । शतं वर्षसहस्राणि शिरसैव पिनाकधृक्
मेरोस्तु पश्चिमे पार्श्वे केतुमालो द्विजोत्तमाः । जंबूखंडे तु तत्रैव महाजनपदो द्विजाः
आयुर्दशसहस्राणि वर्षाणां तत्र सत्तमाः । सुवर्णवर्णाश्च नरा स्त्रियश्चाप्सरसां समाः
अनामया वीतशोका नित्यं मुदितमानसाः । जायंते मानवास्तत्र निस्तप्तकनकप्रभाः
गंधमादनशृंगेषु कुबेरः सह राक्षसैः । संवृतोप्सरसां संघैर्मोदते गुह्यकाधिपः
गंधमादनपार्श्वे तु परे विगतपातकाः । एकादशसहस्राणि वर्षाणां परमायुषः
तत्र कृष्णा नरा विप्रास्तेजोयुक्ता महाबलाः । स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः
नीलोत्पलधरं श्वेतं श्वेताद्धैरण्यकं वरम् । वर्षमैरावतं विप्रा नानाजनपदावृतम्
धनुखंडेः महाभागा द्वे वर्षे दक्षिणोत्तरे । इलावृत्तं मध्यगं तु पंचवर्षाणि चैव हि
उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः । आयुः प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः
समन्वितानि भूतानि तेषु सर्वेषु सत्तमाः । एवमेषा महाभागाः पर्वतैः पृथिवी चिता
हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः । तत्र वैश्रवणो देवो गुह्यकैः सह मोदते
अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति । हिरण्यशृंगः सुमहान्दिव्यो मणिमयो गिरिः
तस्य पार्श्वे महद्दिव्यं शुभ्रं कांचनवालुकम् । रम्यं विष्णुसरो नाम यत्र राजा भगीरथः
दृष्ट्वा भागीरथीं गंगामुवास बहुलाः समाः । यूपा मणिमयास्तत्र क्षेत्राश्चापि हिरण्मयाः
तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः । स्रष्टा भूतिपतिर्यत्र सर्वलोकैः सनातनः
उपास्यते तिग्मतेजा यत्र भूतः समंततः । नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पंचमः
तत्र दिव्या त्रिपथगा प्रथमं तु प्रतिष्ठिता । ब्रह्मलोकादपाक्रांता सप्तधा प्रतिपद्यते
वटोदका सा नलिनी पार्वती च सरस्वती । जंबूनदी च सीता च गंगा सिंधुश्च सप्तमी
अचिंत्या दिव्यसंज्ञा सा प्रभावैश्च समन्विता । उपास्यते यत्र सत्रं सहस्रयुगपर्यये
दृश्यादृश्या च भवति तत्रतत्र सरस्वती । एता दिव्याः सप्तगंगास्त्रिषुलोकेषु विश्रुताः
रक्षांसि वै हिमवती हेमकूटे च गुह्यकाः । सर्पा नागाश्च निषधे गोकर्णं च तपोवनम्
देवासुराणां सर्वेषां श्वेतः पर्वतमुच्यते । गंधर्वा निषधे नित्यं नीले ब्रह्मर्षयस्तथा
शृंगवांस्तु महाभागा देवानां प्रतिसंचरः । इत्येतानि महाभागाः सप्तवर्षाणि भागशः
भूतान्युपनिविष्टानि गतिमंति ध्रुवाणि च । तेषामृद्धिर्बहुविधा दृश्यते देवमानुषा
अशक्यं परिसंख्यातुं श्रद्धे या तु विभूषिता । यां तु पृच्छथ मां विप्रा दिव्यमेनां शशाकृतिम्
पार्श्वे शशस्य द्वे वर्षे उक्ते ये दक्षिणोत्तरे । कर्णे तु नागद्वीपश्च काश्यपद्वीप एव च