भवनैरावृतैः सर्वैः र्जांबूनदमयैः शुभैः । तत्र देवगणा विप्रा गंधर्वासुरराक्षसाः
अप्सरोगणसंयुक्ताः शैले क्रीडंति सर्वदा । तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः
समेत्य विविधैर्यज्ञैर्यजंतेऽनेक दक्षिणैः । तुंबुरुर्नारदश्चैव विश्वावसुर्हाहा हूहूः
अभिगम्यामरश्रेष्ठं स्तुवंति विविधैः स्तवैः । सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः
तत्र गच्छंति भद्रं वः सदा पर्वणि पर्वणि । तस्यैव मूर्द्धन्युशना काव्यो दैत्यैर्महीयते
तस्य हैमानि रत्नानि तस्यैते रत्नपर्वताः । तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्नुते
ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति । पर्वतस्यांतरे दिव्यं सर्वर्तुकुसुमैश्चितम्
कर्णिकारवनं रम्यं शिलाजालसमुच्छ्रितम् । तत्र साक्षात्पशुपतिर्दिव्यभूतैः समावृतः
उमासहायोभगवान्रमते भूतभावनः । कर्णिकारमयीं मालां बिभ्रदापादलंबिनीम्
त्रिभिर्नेत्रैः कृतोद्द्योतस्त्रिभिः सूर्यैरिवोदितैः । तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः
पश्यंति नहि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः । तस्य शैलस्य शिखरात्क्षीरधारा द्विजोत्तमाः
विश्वरूपात्परमिता भीमनिर्घातनिस्वना । पुण्यापुण्यतमैर्जुष्टा गंगा भागीरथी शुभा
प्लवंती च प्रवेगेन ह्रदे चंद्रमसः शुभे । तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः
तां धारयामास तदा दुर्द्धरां पर्वतैरपि । शतं वर्षसहस्राणि शिरसैव पिनाकधृक्
मेरोस्तु पश्चिमे पार्श्वे केतुमालो द्विजोत्तमाः । जंबूखंडे तु तत्रैव महाजनपदो द्विजाः
आयुर्दशसहस्राणि वर्षाणां तत्र सत्तमाः । सुवर्णवर्णाश्च नरा स्त्रियश्चाप्सरसां समाः
अनामया वीतशोका नित्यं मुदितमानसाः । जायंते मानवास्तत्र निस्तप्तकनकप्रभाः
गंधमादनशृंगेषु कुबेरः सह राक्षसैः । संवृतोप्सरसां संघैर्मोदते गुह्यकाधिपः
गंधमादनपार्श्वे तु परे विगतपातकाः । एकादशसहस्राणि वर्षाणां परमायुषः
तत्र कृष्णा नरा विप्रास्तेजोयुक्ता महाबलाः । स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः
नीलोत्पलधरं श्वेतं श्वेताद्धैरण्यकं वरम् । वर्षमैरावतं विप्रा नानाजनपदावृतम्
धनुखंडेः महाभागा द्वे वर्षे दक्षिणोत्तरे । इलावृत्तं मध्यगं तु पंचवर्षाणि चैव हि
उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः । आयुः प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः
समन्वितानि भूतानि तेषु सर्वेषु सत्तमाः । एवमेषा महाभागाः पर्वतैः पृथिवी चिता
हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः । तत्र वैश्रवणो देवो गुह्यकैः सह मोदते
अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति । हिरण्यशृंगः सुमहान्दिव्यो मणिमयो गिरिः
तस्य पार्श्वे महद्दिव्यं शुभ्रं कांचनवालुकम् । रम्यं विष्णुसरो नाम यत्र राजा भगीरथः
दृष्ट्वा भागीरथीं गंगामुवास बहुलाः समाः । यूपा मणिमयास्तत्र क्षेत्राश्चापि हिरण्मयाः
तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः । स्रष्टा भूतिपतिर्यत्र सर्वलोकैः सनातनः
उपास्यते तिग्मतेजा यत्र भूतः समंततः । नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पंचमः