भद्रा वापि सुभद्रा या वयस्या सा नदी पुरा । सहायमकरोन्मार्गे साक्षात्श्रीरूपधारिणी
तयोस्तुसंगमः पुण्यः सागरस्योत्तरे तटे । तत्र तीर्थे नरः स्नात्वा मृष्टं वारि ददाति यः
नमस्कृत्य वराहाय वारुणं स्थानमाप्नुयात् । प्रविश्य भगवान्विष्णुस्तेन मार्गेण सागरम्
जित्वा वै दानवान्सर्वान्देवानां परिपंथिनः । देवो यज्ञवराहश्च संक्षोभ्य मकरालयम् । क्रीडित्वा सुचिरं कालं कर्दमालेन निर्ययौ
पार्वत्युवाच। देव यज्ञवराहस्य साभ्रमत्यां प्रवेशनम् । निर्गमं कर्दमालेन ब्रूहि त्वं मम विस्तरात्
महादेव उवाच। अंतर्भू क्रीडितमिदं वराहस्य हरेः पुरा । तत्सर्वं कथयिष्यामि शृणु त्वं नगनंदिनि
योऽयं वै भगवान्साक्षाद्धृतवान्सूकरं वपुः । देवानां कार्यसिद्ध्यर्थं रूपं धृत्वा सुरेश्वरः
धृत्वा वै पृथिवीं देवीं निर्गतः कर्दमालयम् । तत्र तीर्थं महज्जातं वराहाख्यं तु सुंदरि
तत्र स्नाति नरो यस्तु मुक्तिभाक्स न संशयः । अत्र श्राद्धं प्रकुर्वीत पितॄणां मुक्तिहेतवे । विमुक्तस्तैः समं लोकं प्रयाति सुखदं महत्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तर। खंडे वाराहतीर्थंनामैकोनसप्तत्यधिकशततमोऽध्यायः
महादेव उवाच। शृणु देवि प्रवक्ष्यामि व्रतं त्रैलोक्यदुर्लभम् । यं श्रुत्वा मुच्यते लोको ब्रह्महत्यादिपातकात्
उत्पतिः स्वप्रकाशस्य भक्तानां सुखहेतवे । तिथिर्वापि समासो वै संजातः पुण्यकारकः
यस्य नाम गृणन्देवि मुक्तिं लभति शाश्वतीम् । स एव परमात्मा च कारणानां च कारणम्
विश्वात्मा विश्वरूपी च सर्वेषां भगवान्प्रभुः । द्वादशार्का धृता येन नृसिंहेन महात्मना । स एव प्रकटीजातो भक्तानां शमभीप्सया
पार्वत्युवाच। अवतारा ह्यसंख्याताः कथिताः सुरसत्तम । नृसिंहाख्यं परं धाम वद विश्वेश्वर प्रभो । येन विज्ञानमात्रेण सुख लोकमवाप्नुयात्
महादेव उवाच। हिरण्यकशिपुं हत्वा देवदेवं जगद्गुरुम् । सुखासीनं तदुत्संगे स्थितो वचनमब्रवीत्
प्रह्लादो ज्ञानिनां श्रेष्ठः पितॄहंतारमुत्तमम्
प्रह्लाद उवाच। नमस्ते भगवन्विष्णो नृसिंहाद्भुतरूपिणे । त्वद्भक्तोहं सुरश्रेष्ठ त्वां पृच्छामि च तत्वतः
स्वामिंस्त्वयि ममाभिन्ना भक्तिर्जाता ह्यनेकधा । कथं तेऽहं प्रियो जातः कारणं वद मे प्रभो
नृसिंह उवाच। कथयामि महाप्राज्ञ शृणुष्वैकाग्रमानसः । भक्तेर्यत्कारणं वत्स प्रियत्वस्य च यत्पुनः
पुरा कस्य द्विजस्यापि जातस्त्वं नाप्यधीतवान् । नाम्ना तु वसुदेवो हि वेश्यायामति लंपटः
तस्मिन्जन्मनि नैवं च चकार सुकृतं कियत् । भुक्त्वा मधु घृतं चैव वेश्यासंगमलालसः
मद्व्रतस्य प्रभावेन भक्तिर्जाता तवानघ । प्रह्लादोवाच। विस्तराद्वद देवेश कस्य पुत्रस्य किं व्रतम्
वेश्यायां वर्तमानेन कथंचिद्धि कृतं मया । ममोपरि कृपां कृत्वा सर्वं कथय सांप्रतम्
नृसिंह उवाच। सृष्ट्यर्थं तु पुरा ब्रह्मा चक्रे ह्येतदनुत्तमम् । मद्व्रतस्य प्रभावेन निर्मितं सचराचरम्
ईश्वरेण व्रतं चीर्णं वधार्थं त्रिपुरस्यच । व्रतस्यास्यप्रभावेन त्रिपुरस्तु निपातितः
अन्यैश्च बहुभिर्देवैरृषिभिश्च पुरातनैः । राजभिश्च महाप्राज्ञैर्विहितं व्रतमुत्तमम्
व्रतस्यास्य प्रभावेन सर्वे सिद्धिमवाप्नुयुः । मम ते वै प्रिया जाता दिवि भोगाननेकशः
भुक्त्वा मयि विलीनास्तु प्रह्लाद त्वं विशस्व माम् । कार्यार्थमवतारस्ते मच्छरीरत्पृथग्यतः
न तेषां पुनरावृत्तिर्महाकल्पशतैरपि । दरिद्रो लभते लक्ष्मीं धनदस्य च यादृशी