शब्दस्पर्शश्च रूपं च रसो गंधश्च पंचमः । भूमेरेतेगुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः
चत्वारोप्सुगुणा विप्रा गंधस्तत्र न विद्यते । शब्दः स्पर्शश्च रूपं च तेजसोथ गुणास्त्रयः
शब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव च । एते पंच गुणा विप्रा महाभूतेषु पंचसु
वर्तंते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः । अन्योन्यं नातिवर्तंते साम्यं भवति वै तदा
यदा तु विषमीभावमाविशंति परस्परम् । तदा देहैर्देहवंतो व्यतिरोहंति नान्यथा
आनुपूर्व्या विनश्यंति जायंते चानुपूर्वशः । सर्वाण्यपरिमेयाणि तदेषां रूपमैश्वरम्
यत्रयत्र हि दृश्यंते धावंति पांचभौतिकाः । तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते
अचिंत्याः खलु ये भावास्तान्न तर्केण साधयेत् । सुदर्शनं प्रवक्ष्यामि द्वीपं तु मुनिपुंगवाः
परिमंडलो महाभागा द्वीपोऽसौ चक्रसंस्थितः । नदीजलपरिच्छिन्नः पर्वतैश्चाब्धिसन्निभैः
पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा । वृक्षैः पुष्पफलोपेतैः संपन्नो धनधान्यवान्
लवणेन समुद्रेण समंतात्परिवारितः । यथा हि पुरुषः पश्येदादर्शे मुखमात्मनः
एवं सुदर्शनो द्वीपो दृश्यते चक्रमंडलः । द्विरंशे पिप्पलस्तस्य द्विरंशे च शशो महान्
सर्वौषधिं समादाय सर्वतः परिवारितः । आपस्ततोन्या विज्ञेयाः शेषः संक्षेप उच्यते
ऋषय ऊचुः-। उक्तो यस्य च संक्षेपो बुद्धिमन्विधिवत्त्वया । तत्त्वज्ञश्चासि सर्वस्य विस्तरं सूत नो वद
यावान्भूम्यवकाशोयं दृश्यते शशलक्षणे । तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम्
एवं तैः किल पृष्टः स सूतो वाक्यमथाब्रवीत् । सूत उवाच-। प्रागायता महाप्राज्ञाः षडेते रत्नपर्वताः
अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ । हिमवान्हिमकूटश्च निषधश्च नगोत्तमः
नीलश्च वैडूर्यमयः श्वेतश्च शशिसन्निभः । सर्वधातुपिनद्धश्च शृंगवान्नामपर्वतः
एते वै पर्वता विप्राः सिद्धचारणसेविताः । तेषामंतरविष्कुंभौ योजनानि सहस्रशः
तत्र पुण्या जनपदास्तानि वर्षाणि सत्तमाः । वसंति तेषां सत्त्वानि नानाजातीनि सर्वशः
इदं तु भारतं वर्षं ततो हैमवतं परम् । हेमकूटात्परं चैव हरिवर्षं प्रचक्षते
दक्षिणेन तु नीलस्य निषधस्योत्तरेण च । प्रागायतो महाभागा माल्यवान्नाम पर्वतः
ततः परं माल्यवतः पर्वतो गंधमादनः । परिमंडलस्तयोर्मध्ये मेरुः कनकपर्वतः
आदित्यतरुणाभासो विधूम इव पावकः । योजनानां सहस्राणि चतुरशीतिरुच्छ्रितः
अधस्ताच्चतुरशीतिर्योजनानां द्विजोत्तमाः । ऊर्ध्वमधश्च तिर्यक्च लोकानावृत्य तिष्ठति
तस्य पार्श्वेष्वमी द्वीपाश्चत्वारः संस्थिता द्विजाः । भद्राश्वः केतुमालश्च जंबूद्वीपश्च सत्तमाः
उत्तराश्चैव कुरुवः कृतपुण्य प्रतिश्रयाः । विहंगसुमुखो यस्तु सुपार्श्वस्यात्मजः किल
स वै विचिंतयामास सौवर्णान्प्रेक्ष्य वायसान् । मेरुरुत्तममध्यानामधमानां च पक्षिणाम्
अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् । तमादित्योनुपर्येति सततं ज्योतिषां वरः
चंद्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणः । स पर्वतो महाप्राज्ञा दिव्यपुष्पसमन्वितः