एकादशं मनश्चात्र कीर्तितं तत्त्वचिंतकैः । ज्ञानेंद्रियाणि पंचात्र पंचकर्मेंद्रियाणि च
तानि वक्ष्यामि तेषां च कर्माणि कुलपावनाः । श्रवणं त्वक्चक्षुर्जिह्वा नासिका चैव पंचमी
शब्दादिज्ञानसिद्ध्यर्थं बुद्धियुक्तानि पंच वै । पायूपस्थं हस्तपादौ कीर्तिता वाक्चपंचमी
विसर्गानंदनादानगत्युक्तिकर्मतत्स्मृतम् । आकाशवायुतेजांसि सलिलं पृथिवी तथा
शब्दादिभिर्गुणैर्विप्राः संयुक्ता उत्तरोत्तरैः । नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना
नाशक्नुवन्प्रजाः स्रष्टुमसमागत्य कृत्स्नशः । समेत्यान्योन्यसंयोगं परस्परमथाश्रयात्
एकसंघास्सलक्ष्याश्च संप्राप्यैक्यमशेषतः । पुरुषाधिष्ठितत्वाच्च प्रधानानुग्रहेण च
महदादयो विशेषांता अंडमुत्पादयंति ते । तत्क्रमेण विवृद्धं तु जलबुद्बुदवत्सदा
भूतेभ्योंडं महाप्राज्ञा वृद्धं तदुदकेशयम् । प्राकृतं ब्रह्मरूपस्य विष्णोः स्थानमनुत्तमम्
तत्राव्यक्तस्वरूपोसौ विष्णुर्विश्वेश्वरः प्रभुः । ब्रह्मरूपं समास्थाय स्वयमेव व्यवस्थितः
स्वेदजांडमभूत्तस्य जरायुश्च महीधराः । गर्भोदकं समुद्राश्च तस्याभून्महदात्मनः
साद्रिद्वीपसमुद्राश्च सज्योतिर्लोकसंग्रहः । तस्मिन्नंडेभवत्सर्वं सदेवासुरमानुषम्
अनादिनिधनस्यैव विष्णोर्नाभेः समुत्थितम् । यत्पद्मं तद्धैममंडमभूच्छ्रीकेशवेच्छया
रजोगुणधरो देवः स्वयमेव हरिः परः । ब्रह्मरूपंसमास्थाय जगत्स्रष्टुं प्रवर्तते
सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना । नारसिंहादिरूपेण रुद्ररुपेण संहरेत्
सब्रह्मरूपं विसृजन्महात्मा जगत्समस्तं परिपातुमिच्छन् । रामादिरूपं स तु गृह्य याति बभूव रुद्रो जगदेतदत्तुम्
ऋषय ऊचुः-। नदीनां पर्वतानां च नामधेयानि सर्वशः । तथा जनपदानां च ये चान्ये भूमिमाश्रिताः
प्रमाणं च प्रमाणज्ञ पृथिव्याः किल सर्वतः । निखिलेन समाचक्ष्व काननानि च सत्तम
सूत उवाच-। पंचेमानि महाप्राज्ञ महाभूतानि संग्रहात् । जगतीस्थानि सर्वाणि समान्याहुर्मनीषिणः
भूमिरापस्तथा वायुरग्निराकाशमेव च । गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः
शब्दस्पर्शश्च रूपं च रसो गंधश्च पंचमः । भूमेरेतेगुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः
चत्वारोप्सुगुणा विप्रा गंधस्तत्र न विद्यते । शब्दः स्पर्शश्च रूपं च तेजसोथ गुणास्त्रयः
शब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव च । एते पंच गुणा विप्रा महाभूतेषु पंचसु
वर्तंते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः । अन्योन्यं नातिवर्तंते साम्यं भवति वै तदा
यदा तु विषमीभावमाविशंति परस्परम् । तदा देहैर्देहवंतो व्यतिरोहंति नान्यथा
आनुपूर्व्या विनश्यंति जायंते चानुपूर्वशः । सर्वाण्यपरिमेयाणि तदेषां रूपमैश्वरम्
यत्रयत्र हि दृश्यंते धावंति पांचभौतिकाः । तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते
अचिंत्याः खलु ये भावास्तान्न तर्केण साधयेत् । सुदर्शनं प्रवक्ष्यामि द्वीपं तु मुनिपुंगवाः
परिमंडलो महाभागा द्वीपोऽसौ चक्रसंस्थितः । नदीजलपरिच्छिन्नः पर्वतैश्चाब्धिसन्निभैः
पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा । वृक्षैः पुष्पफलोपेतैः संपन्नो धनधान्यवान्