पाराशर्यं परमपुरुषं विश्ववेद्यैकयोनिं विद्याधारं विपुलमतिदं वेदवेदांतवेद्यम् । शश्वच्छांतं स्वमतिविषयं शुद्धतेजोविशालं वेदव्यासं विततयशसं सर्वदाहं नमामि
नमो भगवते तस्मै व्यासायामिततेजसे । यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम्
प्रवक्ष्यामि महापुण्यं पुराणं पद्मसंज्ञितम् । सहस्रं पंचपंचाशत्षड्भिः खंडैः समन्वितम्
तत्रादावादिखंडं स्याद्भूमिखंडं ततः परम् । ब्रह्मखंडं च तत्पश्चात्ततः पातालखंडकम्
क्रियाखंडं ततः ख्यातमुत्तरं खंडमंतिमम् । एतदेव महापद्ममद्भुतं यन्मयं जगत्
तद्वृत्तांताश्रयं तस्मात्पाद्ममित्युच्यते बुधैः । एतत्पुराणममलं विष्णुमाहात्म्यमुत्तमम्
देवदेवोहरिर्यद्वै ब्रह्मणे प्रोक्तवान्पुरा । ब्रह्मा तन्नारदायाह नारदोऽस्मद्गुरोः पुरः
व्यासः सर्वपुराणानि सेतिहासानि संहिताः । अध्यापयामास मुहुर्मामतिप्रियमात्मनः
तत्तेऽहं संप्रवक्ष्यामि पुराणमतिदुर्लभम् । यच्छ्रुत्वा ब्रह्महत्यादि पापेभ्यो मुच्यते नरः
सर्वतीर्थाभिषेकं च लभते शृणुते हि यः । श्रद्धया परया भक्त्या श्रुतमात्रेण मुक्तिदः
अश्रद्धयापि शृणुते लभते पुण्यसंचयम् । तस्मात्सर्वप्रयत्नेन पद्मं श्रोत्रातिथी कुरु
तत्रादिखंडं वक्ष्यामि पुण्यं पापविनाशनम् । शृण्वंतु मुनयः सर्वे सशिष्यास्त्वत्र ये स्थिताः
सूत उवाच-। आदिसर्गमहं तावत्कथयामि द्विजोत्तमाः । ज्ञायते येन भगवान्परमात्मा सनातनः
सृष्टेषु प्रलयादूर्ध्वं नासीत्किंचिद्द्विजोत्तमाः । ब्रह्मसंज्ञमभूदेकं ज्योतिर्वै सर्वकारकम्
नित्यं निरंजनं शांतं निर्मलं नित्यनिर्मलम् । आनंदसागरंस्वच्छं यत्कांक्षंति मुमुक्षवः
सर्वज्ञं ज्ञानरूपत्वादनंतमजमव्ययम् । अविनाशि सदास्वच्छमच्युतं व्यापकं महत्
सर्गकाले तु संप्राप्ते ज्ञात्वा तं ज्ञानरूपकम् । आत्मलीनं विकारं च तत्स्रष्टुमुपचक्रमे
तस्मात्प्रधानमुद्भूतं ततश्चापि महानभूत् । सात्विको राजसश्चैव तामसश्च त्रिधा महान्
प्रधानेनावृतो ह्येव त्वचा बीजमिवावृतम् । वैकारिकस्तैजसश्च भूतादिश्चैव तामसः
त्रिविधोयमहंकारो महत्तत्वादजायत । यथा प्रधानेन महान्महता स तथा वृतः
भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः । ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम्
शब्दमात्रं तथाकाशं भूतादिः सममावृणोत् । शब्दमात्रं तथाकाशं स्पर्शमात्रं ससर्ज ह
बलवानभवद्वायुस्तस्य स्पर्शो गुणो मतः । आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत्
ततो वायुविकुर्वाणो रूपमात्रं ससर्ज ह । ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते
स्पर्शमात्रस्तु वै वायू रूपमात्रं समावृणोत् । ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह
संभवंति ततोंभांसि रसमात्राणि तानि तु । रसमात्राणिचांभांसि रूपमात्रं समावृणोत्
विकुर्वाणानिचांभांसिगंधमात्रंससर्जिरे । तस्माज्जाता मही चेयं सर्वभूतगुणाधिका
ससंघातो यतस्तस्मात्तस्य गंधो गुणो मतः । तस्मिंस्तस्मिंस्तु तन्मात्रात्तेन तन्मात्रता स्मृता
तन्मात्राण्यविशेषाणि विशेषाः क्रमशो पराः । भूततन्मात्रसर्गोयमहंकारात्तु तामसात्
कीर्तितस्तु समासेन मुनिवर्यास्तपोधनाः । तैजसानींद्रियाण्याहुर्देवा वैकारिका दश