चतुर्वर्गफलं भुक्त्वा ते यास्यंति हरिं पुनः । द्वाविंशतिसहस्राणि संहितापद्मसंज्ञिता
द्वापरे कथिता विप्र ब्रह्मणा परमात्मना । द्वादशैव सहस्राणां पद्माख्या सा तु संहिता
कलौ युगे पठिष्यंति मानवा विष्णुतत्पराः । एकोर्थश्चैकभावश्च चतुर्ष्वपि प्रवर्तितः
संहितास्वेव विप्रेंद्र शेषाख्यानप्रविस्तरः । द्वादशैव सहस्राणि नाशं यास्यंति सत्तम
कलौ युगे तु संप्राप्ते प्रथमं हि भविष्यति । भूमिखंडं नरः श्रुत्वासर्वपापैः प्रमुच्यते
मुच्यते सर्वदुःखेभ्यः सर्वरोगैः प्रमुच्यते । अन्यत्सर्वं परित्यज्य जपं दानं तथा श्रुतम्
श्रोतव्यं हि प्रयत्नेन पद्माख्यं पापनाशनम् । प्रथमं सृष्टिखंडं तु द्वितीयं भूमिखंडकम्
तृतीयं स्वर्गखंडं च पातालं तु चतुर्थकम् । पंचमं चोत्तरं खंडं सर्वपापप्रणाशनम्
यः शृणोति नरो भक्त्या पंचखंडान्यनुक्रमात् । गोप्रदानसहस्रस्य मानवो लभते फलम्
महाभाग्येन लभ्यंते पंचखंडानि भूसुराः । श्रुतानि मोक्षदानि स्युः सत्यं सत्यं न संशयः
इति श्रीपद्मपुराणे भूमिखंडे पंचपंचाशत्सहस्रसंहितायां वेनोपाख्याने पंचविंशत्यधिकशततमोऽध्यायः
नमामि गोविन्दपदारविंदं सदेंदिरावंदितमुत्तमाढ्यम् । जगज्जनानां हृदि संनिविष्टं महाजनैकायनमुत्तमोत्तमम्
एकदा मुनयः सर्वे ज्वलज्ज्वलनसन्निभाः । हिमवद्वासिनः सर्वे मुनयो वेदपारगाः
त्रिकालज्ञा महात्मानो नानापुण्यसमाश्रयाः । महेंद्राद्रिरता ये च ये च विंध्यनिवासिनः
येऽर्बुदारण्यनिरताः पुष्करारण्यवासिनः । श्रीशैलनिरता ये च कुरुक्षेत्रनिवासिनः
धर्म्मारण्यरता ये च दंडकारण्यवासिनः । जंबूमार्गरता ये च ये च सत्यनिवासिनः
एते चान्ये च बहवः सशिष्या मुनयोऽमलाः । नैमिषं समुपायाताः शौनकं द्रष्टुमुत्सुकाः
तं पूजयित्वा विधिवत्तेन ते च सुपूजिताः । आसनेषु विचित्रेषु बृस्यादिषु यथाक्रमम्
शौनकेन प्रदत्तेषु आसीनास्ते तपोधनाः । कृष्णाश्रिताः कथाः पुण्याः परस्परमथाब्रुवन्
कथांतेषु ततस्तेषां मुनीनां भावितात्मनाम् । आजगाम महातेजाः सूतस्तत्र महाद्युतिः
व्यासशिष्यः पुराणज्ञो रोमहर्षणसंज्ञकः । तान्प्रणम्य यथान्यायं स तैश्चैवाभिपूजितः
उपविष्टं यथायोग्यं शौनकाद्या महर्षयः । व्यासशिष्यं सुखासीनं सूतं वै रोमहर्षणम्
तं पप्रच्छुर्महाभागाः शौनकाद्यास्तपोधनाः । ऋषय ऊचुः-। पौराणिक महाबुद्धे रोमहर्षण सुव्रत
त्वत्तः श्रुता महापुण्याः पुरा पौराणिकीः कथाः । सांप्रतं च प्रवृत्ताः स्म कथायां सक्षणा हरेः
स वै पुंसां परोधर्मो यतो भक्तिरधोक्षजे । पुनः पुराणमाचक्ष्व हरिवार्ता समन्वितम्
हरेरन्या कथा सूत श्मशानसदृशी स्मृता । हरिस्तीर्थस्वरूपेण स्वयं तिष्ठति तच्छ्रुतम्
तीर्थानां पुण्यदातॄणां नामानि किल कीर्तय । कुत एतत्समुत्पन्नं केन वा परिपाल्यते
कस्मिन्विलयमभ्येति जगदेतच्चराचरम् । क्षेत्राणि कानि पुण्यानि के च पूज्याः शिलोच्चयाः
नद्यश्च काः पराः पुण्या नृणां पापहराः शुभाः । एतत्सर्वं महाभाग कथयस्व यथाक्रमम्
सूत उवाच-। साधुसाधु महाभागाः साधुपृष्टं तपोधनाः । तं प्रणम्य प्रवक्ष्यामि पुराणं पद्मसंज्ञकम्