शृण्वानस्य नरस्यापि महाविघ्नो न संचरेत् । अश्रद्धा जायते पूर्वं पाठकस्य नरस्य च
लोभश्च जायते तस्य शृण्वानस्य द्विजोत्तम । प्रेषितो विष्णुदेवेन महामोहः स दारुणः
अकरोत्स विनाशं तु शृण्वतश्चास्य नित्यशः । दूषकाः कुत्सकाः पापाः संभवंति दिने दिने
ज्ञातव्यं तु सुबुद्धेन विघ्नरूपं ममाधुना । संजातं दृश्यते व्यास तथा होमं समाचरेत्
वैष्णवैश्च महामंत्रैर्विष्णुसूक्तैः सुपुण्यदैः । विष्णोरराटमंत्रेण सहस्रशीर्षकेण च
इदं विष्णु सुमंत्रेण आब्रह्मेण पुनः पुनः । त्र्यंबकेन च मंत्रेण होममेवं समाचरेत्
बृहत्साम्ना सुमंत्रेण द्वादशाक्षरकेण च । यस्य देवस्य यो होमस्तस्य मंत्रेण होमयेत्
अष्टोत्तरतिलाज्यैश्च पालाशैः समिधैरपि । ग्रहाणामपि कर्त्तव्यं स्थापनं पूजनं द्विज
विघ्नेशं पूजयेत्तत्र शारदां च सुरेश्वरीम् । जातवेदां महामायां चंडिकां क्षेत्रनायकम्
तिलैश्च तंदुलैराज्यैस्तेषां मंत्रसमुद्यतैः । एवं होमः प्रकर्त्तव्यो ब्राह्मणेभ्यो ददेद्धनम्
यथासंभाविकां तात दक्षिणां धेनुसंयुताम् । ततो विघ्नाः प्रणश्यंति पुराणं सिद्धिमाप्नुयात्
एवं न कुरुते यो हि तस्य विघ्नं वदाम्यहम् । तस्यांगे जायते रोगो बहुपीडाप्रदायकः
भार्या शोकः पुत्रशोको धनहानिः प्रजायते । नानाविधान्महारोगान्भुंजते नात्र संशयः
यस्य गेहे नास्ति वित्तमुपवासं समाचरेत् । एकादशीं सुसंप्राप्य पूजयेन्मधुसूदनम्
षोडशैश्चोपचारैश्च भावयुक्तेन चेतसा । ब्राह्मणान्भोजयेत्पश्चाद्यथावित्तानुसारतः
केशवाय ततो दत्वा संकल्पं हविषान्वितम् । स्वयं कुर्यात्ततः प्राज्ञो भोजनं सह बांधवैः
पुत्रैस्तु भार्यया युक्तस्ततः सिद्धिमवाप्नुयात् । पुराणसंहितापूर्णा श्रोतव्या धर्मतत्परैः
चतुर्वर्गस्य वै सिद्धिर्जायते तस्य नान्यथा । सपादं लक्षमेकं तु ब्रह्माख्यं पुष्करं शृणु
कृते युगे तु निष्पापाः शृण्वंति मनुजा द्विज । लक्षस्यार्द्धं ततः कृत्स्नं पुराणं पद्मसंज्ञकम्
श्लोकानां तु सहस्राभ्यां द्वाभ्यामेव तथाधिकम् । त्रेतायुगे तथा प्राप्ते यदा श्रोष्यंति मानवाः
चतुर्वर्गफलं भुक्त्वा ते यास्यंति हरिं पुनः । द्वाविंशतिसहस्राणि संहितापद्मसंज्ञिता
द्वापरे कथिता विप्र ब्रह्मणा परमात्मना । द्वादशैव सहस्राणां पद्माख्या सा तु संहिता
कलौ युगे पठिष्यंति मानवा विष्णुतत्पराः । एकोर्थश्चैकभावश्च चतुर्ष्वपि प्रवर्तितः
संहितास्वेव विप्रेंद्र शेषाख्यानप्रविस्तरः । द्वादशैव सहस्राणि नाशं यास्यंति सत्तम
कलौ युगे तु संप्राप्ते प्रथमं हि भविष्यति । भूमिखंडं नरः श्रुत्वासर्वपापैः प्रमुच्यते
मुच्यते सर्वदुःखेभ्यः सर्वरोगैः प्रमुच्यते । अन्यत्सर्वं परित्यज्य जपं दानं तथा श्रुतम्
श्रोतव्यं हि प्रयत्नेन पद्माख्यं पापनाशनम् । प्रथमं सृष्टिखंडं तु द्वितीयं भूमिखंडकम्
तृतीयं स्वर्गखंडं च पातालं तु चतुर्थकम् । पंचमं चोत्तरं खंडं सर्वपापप्रणाशनम्
यः शृणोति नरो भक्त्या पंचखंडान्यनुक्रमात् । गोप्रदानसहस्रस्य मानवो लभते फलम्
महाभाग्येन लभ्यंते पंचखंडानि भूसुराः । श्रुतानि मोक्षदानि स्युः सत्यं सत्यं न संशयः