निमंत्र्य ब्राह्मणान्सर्वान्नानादेशोद्भवानपि । अथ वेन इयाजासावश्वमेधेन भूपतिः
दानान्यदाद्ब्राह्मणेभ्यो नानारूपाण्यनेकशः । जगाम वैष्णवं लोकं सकायो जगतीपतिः
विष्णुना सह धर्मात्मा नित्यमेव प्रवर्तते । एतद्वः सर्वमाख्यातं चरित्रं तस्य भूपतेः
सर्वपापप्रशमनं सर्वदुःखविनाशनम् । पृथुरेव स धर्मात्मा राजा पृथ्वीं प्रशासति
त्रैलोक्येन समं पृथ्वीं दुदोह नृपसत्तमः । प्रजास्तु रंजितास्तेन पुण्यधर्मानुकर्मभिः
एतत्ते सर्वमाख्यातं भूमिखण्डमनुत्तमम् । प्रथमं सृष्टिखंडं तु द्वितीयं भूमिखंडकम्
भूमिखंडस्यमाहात्म्यं कथयिष्याम्यहं पुनः । अस्य खंडस्य वै श्लोकं यः शृणोति नरोत्तमः
दिनस्यैकस्य वै पापं तस्य चैव प्रणश्यति । यो नरो भावसंयुक्तोऽध्यायं संशृणुते सुधीः
तस्य पुण्यं प्रवक्ष्यामि श्रूयतां द्विजसत्तमाः । दत्तस्य गोसहस्रस्य ब्राह्मणेभ्यः सुपर्वणि
यत्फलं तत्प्रजायेत विष्णुस्तस्य प्रसीदति । अस्य पद्मपुराणस्य पठमानस्य नित्यशः
कलौयुगे तु विघ्नाश्च न जायंते नरस्य वै । व्यास उवाच- कस्मात्कलौ न जायंते शृण्वानस्य च पद्मज
नरस्य पुण्ययुक्तस्य नाना विघ्नाः सुदारुणाः । ब्रह्मोवाच- मखस्याप्यश्वमेधस्य यत्फलं परिकथ्यते
तत्फलं दृश्यते तात पुराणे पद्मसंज्ञके । अश्वमेधमखः पुण्यः कलौ नैव प्रवर्तते
पुराणं चापि यत्तद्वदश्वमेधसमं किल । अश्वमेधस्य यत्पुण्यं स्वर्गमोक्षफलप्रदम्
न भुंजंति नराः पापाः पापमार्गेषु संस्थिताः । पुराणस्यास्य पुण्यस्य पद्मसंज्ञस्य सत्तम
अश्वमेधसमं पुण्यं न भुंजंति कलौ नराः । कलौ युगे नरैः पापैर्गंतव्यं नरकार्णवम्
कस्माच्छ्रोष्यंति तत्पुण्यं चतुर्वर्गप्रसाधनम् । येन श्रुतमिदं पुण्यं पुराणं पद्मसंज्ञकम्
सर्वं हि साधितं तेन चतुर्वर्गस्य साधनम् । अश्वमेधादयो यज्ञास्तस्मान्नष्टा महामते
कलौ युगे गताः स्वर्गे सवेदाः सांगसस्वराः । यः कोपि सत्वसंपन्नः श्रद्धावान्भगवत्परः
श्रोतुमिच्छति धर्मात्मा सपुत्रो भार्यया सह । श्रवणार्थं महाश्रद्धा पूर्वं तस्य प्रजायते
शृण्वानस्य नरस्यापि महाविघ्नो न संचरेत् । अश्रद्धा जायते पूर्वं पाठकस्य नरस्य च
लोभश्च जायते तस्य शृण्वानस्य द्विजोत्तम । प्रेषितो विष्णुदेवेन महामोहः स दारुणः
अकरोत्स विनाशं तु शृण्वतश्चास्य नित्यशः । दूषकाः कुत्सकाः पापाः संभवंति दिने दिने
ज्ञातव्यं तु सुबुद्धेन विघ्नरूपं ममाधुना । संजातं दृश्यते व्यास तथा होमं समाचरेत्
वैष्णवैश्च महामंत्रैर्विष्णुसूक्तैः सुपुण्यदैः । विष्णोरराटमंत्रेण सहस्रशीर्षकेण च
इदं विष्णु सुमंत्रेण आब्रह्मेण पुनः पुनः । त्र्यंबकेन च मंत्रेण होममेवं समाचरेत्
बृहत्साम्ना सुमंत्रेण द्वादशाक्षरकेण च । यस्य देवस्य यो होमस्तस्य मंत्रेण होमयेत्
अष्टोत्तरतिलाज्यैश्च पालाशैः समिधैरपि । ग्रहाणामपि कर्त्तव्यं स्थापनं पूजनं द्विज
विघ्नेशं पूजयेत्तत्र शारदां च सुरेश्वरीम् । जातवेदां महामायां चंडिकां क्षेत्रनायकम्
तिलैश्च तंदुलैराज्यैस्तेषां मंत्रसमुद्यतैः । एवं होमः प्रकर्त्तव्यो ब्राह्मणेभ्यो ददेद्धनम्