गर्भयोगसमारूढः पुनस्तं चिंतयाम्यहम् । तेन मे निर्मलं ज्ञानं जातं वै सर्वदर्शकम्
गुरोस्तस्य प्रसादाच्च प्राप्तं वै ज्ञानमुत्तमम् । तस्यवाक्योदकैः स्वच्छैः कायस्य मलमेव च
सबाह्याभ्यंतरं विप्र क्षालितं निर्मलं कृतम् । तिर्यक्त्वं च मया प्राप्तं शुकजातिसमुद्भवम्
शुकस्य ध्यानभावेन मरणे समुपस्थिते । तस्मिन्काले मृतो विप्र तद्भावेनापि भावितः
तादृशोऽस्मि पुनर्जातः शुकरूपो महीतले । मरणे यादृशो भावः प्राणिनां परिजायते
तादृशाः स्युस्तु सत्वास्ते तद्रूपास्तत्परायणाः । तद्गुणास्तत्स्वरूपास्ते भावभूता भवंति हि
मृत्यकालस्य विप्रेंद्र भावेनापि न संशयः । अतुलं प्राप्तवाञ्ज्ञानमहमत्र महामते
तेन सर्वं विपश्यामि यद्भूतं यद्भविष्यति । वर्तमानं महाप्राज्ञ ज्ञानेनापि महामते
सर्वं विदाम्यहं ह्यत्र संस्थितोपि न संशयः । तारणाय मनुष्याणां संसारे परिवर्तताम्
नास्ति तीर्थं गुरुसमं बंधच्छेदकरं द्विज । एतत्ते सर्वमाख्यातं शृणु भार्गवनंदन
यत्त्वया पृच्छितं विप्र तत्ते सर्वं प्रकाशितम् । स्थलजाच्चोदकात्सर्वं बाह्यं मलं प्रणश्यति
जन्मांतरकृतान्पापान्गुरुतीर्थं प्रणाशयेत् । संसारतारणायैव जंगमं तीर्थमुत्तमम्
विष्णुरुवाच- शुक एवं महाप्राज्ञश्च्यवनाय महात्मने । तत्त्वं प्रकाशयित्वा तु विरराम नृपोत्तम
एतत्ते सर्वमाख्यातं जंगमं तीर्थमुत्तमम् । वरं वरय भद्रं ते यत्ते मनसि वर्त्तते
वेन उवाच- नाहं राज्यस्य कामार्थी नान्यत्किंचित्प्रकामये । सदेहो गंतुमिच्छामि तव कायं जनार्दन
एवं वरमहं मन्ये यदि दातुमिहेच्छसि । विष्णुरुवाच- यज त्वमश्वमेधेन राजसूयेन भूपते
गो भू स्वर्णाम्बुधान्यानां कुरु दानं महामते । दानान्नश्यति वै पापं ब्रह्मवध्यादिघोरकम्
चतुर्वर्गस्तु दानेन सिद्ध्यत्येव न संशयः । तस्माद्दानं प्रकर्तव्यं मामुद्दिश्य च भूपते
यादृशेनापि भावेन मामुद्दिश्य ददाति यः । तादृशं तस्य वै भावं सत्यमेवं करोम्यहम्
ऋषीणां दर्शनात्स्पर्शाद्भ्रष्टस्ते पापसंचयः । आगमिष्यसि यज्ञांते मम देहं न संशयः
एवमाभाष्य तं वेनमंतर्द्धानं गतो हरिः
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्यसंपूर्तिवर्णने। च्यवनचरित्रसमाप्तौ च त्रयोविंशत्यधिकशततमोऽध्यायः
सूत उवाच- अंतर्द्धानं गते विष्णौ वेनो राजा महामतिः । क्व गतो देवदेवेश इति चिंतापरोऽभवत्
हर्षेण महताविष्टश्चिंतयित्वा नृपोत्तमः । समाहूय नृपश्रेष्ठं तं पृथुं मधुराक्षरैः
तमुवाच महात्मानं हर्षेण महता तदा । त्वया पुत्रेण भूर्लोके तारितोस्मि सुपातकात्
नीत उज्ज्वलतां वत्स वंशो मे सांप्रतं पृथो । मया विनाशितो दोषैस्त्वया गुणैः प्रकाशितः
यजेहमश्वमेधेन दास्ये दानान्यनेकशः । विष्णुलोकं व्रजाम्यद्य सकायस्ते प्रसादतः
संभरस्व महाभाग संभारांस्त्वं नृपोत्तम । आमंत्रय महाभाग ब्राह्मणान्वेदपारगान्
एवं पृथुः समादिष्टो वेनेनापि महात्मना । प्रत्युवाच महात्मा स वेनं पितरमादरात्
कुरु राज्यं महाराज भुंक्ष्व भोगान्मनोनुगान् । दिव्यान्वा मानुषान्पुण्यान्यज्ञैर्यज जनार्दनम्