ततस्तु जायते ज्ञानं सर्वतत्त्वार्थदर्शकम् । तत्त्वमूलमिदं ज्ञानं निर्मलं सर्वदर्शकम्
तस्माच्छांतिं कुरुष्व त्वं सर्वसौख्यप्रवर्द्धिनीम् । समः शत्रौ च मित्रे च यथात्मनि तथापरे
भव स्वनियतो नित्यं जिताहारो जितेंद्रियः । मैत्रं नैव प्रकर्तव्यं वैरं दूरे परित्यजेत्
निःसंगो निःस्पृहो भूत्वा एकांतस्थानमाश्रितः । सर्वप्रकाशको ज्ञानी सर्वदर्शी भविष्यसि
एकस्थानस्थितो वत्स त्रैलोक्ये यद्भविष्यति । वृत्तांतं वेत्स्यसि त्वं तु मत्प्रसादान्न संशयः
कुंजल उवाच- सिद्धेन तेन मे विप्र ज्ञानरूपं प्रकाशितम् । तस्य वाक्ये स्थितो नित्यं तद्भावेनापि भावितः
त्रैलोक्ये वर्त्तते यद्यदेकस्थाने स्थितो ह्यहम् । तत्तदेव प्रजानामि प्रसादात्तस्य सद्गुरोः
एतत्ते सर्वमाख्यातमात्मवृत्तांतमेव हि । अन्यत्किं ते प्रवक्ष्यामि तद्ब्रूहि द्विजसत्तम
च्यवन उवाच- कीरयोनिं कथं प्राप्तो भवाञ्ज्ञानवतां वरः । तन्मे त्वं कारणं ब्रूहि सर्वसंदेहनाशनम्
कुंजल उवाच- संसर्गाज्जायते पापं संसर्गात्पुण्यमेव हि । तस्माद्विवर्जयेच्छुद्धो भव्यं विरुद्धमेव च
लुब्धकेनापि पापेन केनाप्येकः शुकः शिशुः । बंधयित्वा समानीतो विक्रयार्थं समुद्यतः
चाटुकांर सुरूपं तं पटुवाक्यं समीक्ष्य च । गृहीतो ब्राह्मणैकेन मम प्रीत्या समर्पितः
ज्ञानध्यानस्थितो नित्यमहमेव द्विजोत्तम । समे बालस्वभावेन कौतुकात्करसंस्थितः
तस्य कौतुकवाक्यैर्वा मुग्धोऽहं द्विजसत्तम । शुकस्य पुत्ररूपस्य नित्यं तत्परमानसः
मामेवं वदते सोपि ताततातेति आस्यताम् । स्नातुं गच्छ महाभाग देवमर्चय सांप्रतम्
इत्यादिचाटुकैर्वाक्यैर्मामेवं परिभाषयेत् । तस्यवाक्यविनोदेन विस्मृतं ज्ञानमुत्तमम्
पुष्पार्थं फलभोगार्थं गतोहं वनमेव च । नीतः शुको बिडालेन मम दुःखस्य हेतवे
मम संसर्गिभिः सर्वैर्वयस्यैः साधुचारिभिः । बिडालेन हतः पक्षी तेनैव भक्षितो हि सः
श्रुत्वा मृत्युं गतं विप्र शुकं तं चाटुकारकम् । महता दुःखभावेन असुखेनातिदुःखितः
तस्य दुःखेन मुग्धोस्मि तीव्रेणापि सुपीडितः । महता मोहजालेन बद्धोऽहं द्विजपुंगव
प्रालपं रामचंद्रेति शुकराजेति पंडित । श्लोकराजेति तं विप्र मोहाच्चलितमानसः
ततोऽहं दुःखसंतप्तः संजातः स्वेनकर्मणा । वियोगेनापि विप्रेंद्र शुकस्य शृणु सांप्रतम्
विस्मृतं तन्मया ज्ञानं सिद्धेनापि प्रकाशितम् । संस्मरञ्छोकसंतप्तस्तं शुकं चाटुकारकम्
वत्सवत्सेति नित्यं वै प्रलपञ्छृणु भार्गव । गद्यपद्यमयैर्वाक्यैः संस्कृताक्षरसंयुतैः
त्वां विना कश्च मां वत्स बोधयिष्यति सांप्रतम् । कथाभिस्तु विचित्राभिः पक्षिराजप्रसाद्य माम्
अस्मिन्सुनिर्जनोद्याने विहाय क्व गतो भवान् । केन दोषेण लिप्तोस्मि तन्मे कथय सांप्रतम्
एवंविधैरहं वाक्यैः करुणैस्तैस्तु मोहितः । एवमादि प्रलप्याहं शोकेनापि सुपीडितः
मृतोहं तेन मोहेन तद्भावेनापि मोहितः । मरणे यादृशो भावो मतिश्चासीच्च यादृशी
तादृशेनापि भावेन जातोऽहं द्विजसत्तम । गर्भवासो मया प्राप्तो ज्ञानस्मृतिविधायकः
स्मृतं पूर्वकृतं कर्म स्वयमेव विचेष्टितम् । मया पापेन मूढेन किं कृतं ह्यकृतात्मना