दिवारात्रौ न निद्रास्ति नास्ति सुखस्य साधनम् । तस्माद्दुःखमयं तात न यास्ये गुरुमंदिरम्
विद्याकार्यं करिष्ये न क्रीडार्थमहमुत्सुकः । भोक्ष्ये स्वप्स्ये प्रसादात्ते करिष्ये क्रीडनं पितः
डिंभैः सार्द्धं सुखेनापि दिवारात्रमतंद्रितः । मामुवाच स धर्मात्मा मूढं ज्ञात्वा सुदुःखितः
विद्याधर उवाच- मा पुत्र साहसं कार्षीर्विद्यार्थमुद्यमं कुरु । विद्यया प्राप्यते सौख्यं यशः कीर्तिस्तथातुला
ज्ञानं स्वर्गश्च मोक्षश्च तस्माद्विद्यां प्रसाधय । पूर्वं सुदुःखमूला तु पश्चाद्विद्या सुखप्रदा
तस्मात्साधय पुत्र त्वं विद्यां गुरुगृहं व्रज । पितुर्वाक्यमकुर्वाणो अहमेवं दिनदिने
यत्रयत्र स्थितो नित्यमर्थहानिं करोम्यहम् । उपहासः कृतो लोकैर्ममविप्र प्रकुत्सनम्
मम लज्जा समुत्पन्ना जीवनाशकरी तदा । विद्यार्थमुद्यतो विप्र कं गुरुं प्रार्थयाम्यहम्
इति चिंतापरो जातो दुःखशोकसमाकुलः । कथं विद्यामहं जाने कथं विंदाम्यहं गुणान्
कथं मे जायते स्वर्गः कथं मोक्षं व्रजाम्यहम् । इत्येवं चिंतयन्विप्र वार्द्धक्यमगमं पुनः
देवतायतने दुःखी उपविष्टस्त्वहं कदा । मद्भाग्यैः प्रेरितः कश्चित्सिद्ध एकः समागतः
निराश्रयो जिताहारः सदानंदस्तु निःस्पृहः । एकांतमास्थितो विप्र योगयुक्तो जितेंद्रियः
परब्रह्मणि संलीनो ज्ञानध्यानसमाधिमान् । तमहं संश्रितो विप्र ज्ञानरूपं महामतिम्
अहं शुद्धेन भावेन भक्त्या नमितकंधरः । नमस्कृत्य महात्मानं पुरतस्तस्य संस्थितः
दीनरूपो ह्यहं जातो मंदभाग्यस्तथा पुनः । तेनाहं पृच्छितो विप्र कस्माद्भवान्प्रशोचति
केनाभिप्रायभावेन दुःखमेव भुनक्ति वै । तेनेत्युक्तोस्मि विप्रेंद्र ज्ञानिना योगिना तदा
सुमूढेन मया तस्य पूर्ववृत्तांतमेव हि । तमेवं श्रावितं सर्वं सर्वज्ञत्वं कथं व्रजेत्
एतदर्थं महादुःखी भवान्मम गतिः सदा । स चोवाच महात्मा मे सर्वं ज्ञानस्य कारणम्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे द्वाविंशत्यधिकशततमोऽध्यायः
सिद्ध उवाच- श्रूयतामभिधास्यामि ज्ञानरूपं तवाग्रतः । ज्ञानस्य नास्ति वै देहो हस्तौ पादौ च चक्षुषी
नासाकर्णौ न ज्ञानस्य नास्ति चैवास्थिसंग्रहः । केन दृष्टं तु वै ज्ञानं कानि लिंगानि तस्य वै
आकारैर्वर्जितं नित्यं सर्वं वेत्ति स सर्ववित् । दिवाप्रकाशकः सूर्यो रात्रौ प्रकाशयेच्छशी
गृहं प्रकाशयेद्दीपो लोकमध्ये स्थिता अमी । तत्पदं केन वै धाम्ना दृश्यते शृणु सत्तम
न विंदंति हि मूढास्ते मोहिता विष्णुमायया । कायमध्ये स्थितं ज्ञानं ध्यानदीप्तमनौपमम्
तत्पदं तेन दृश्येत चंद्रसूर्यादिभिर्न च । हस्तपादौ विना ज्ञानमचक्षुः कर्णवर्जितम्
तस्य सर्वत्र गतिरस्ति सर्वं गृह्णाति पश्यति । सर्वमाघ्राति विप्रेंद्र शृणोत्येवं न संशयः
नास्ति ज्ञानसमो दीपः सर्वांधकारनाशने । स्वर्गे भूमौ च पाताले स्थाने स्थाने च दृश्यते
कायमध्ये स्थितं ज्ञानं न विंदंति कुबुद्धयः । ज्ञानस्थानं प्रवक्ष्यामि यस्माज्ज्ञानं प्रजायते
प्राणिनां हृदये नित्यं निहितं सर्वदा द्विज । कामादीन्सुमहाभोगान्महामोहादिकांस्तथा
विवेकवह्निना सर्वान्दिधक्षति सदैव यः । सर्वशांतिमयोभूत्वा इंद्रियार्थं प्रमर्द्दयेत्