वटाधःस्थो द्विजश्रेष्ठस्तमुवाच महाशुकम् । को भवान्धर्मवक्ता हि पक्षिरूपेण वर्तते
किं वा देवोऽथ गंधर्वः किं वा विद्याधरो भवान् । कस्य शापादिमां प्राप्तो योनिं कीरस्य पातकीम्
कस्मात्ते ईदृशं ज्ञानं वर्ततेऽतीद्रियं शुक । सुपुण्यस्य तु कस्यापि कस्य वै तपसः फलम्
किं वा च्छन्नेन रूपेण अनेनापि महामते । कस्त्वं सिद्धोऽसि देवो वा तन्मे कथय कारणम्
कुंजल उवाच- भोः सिद्ध त्वामहं जाने कुलं ते गोत्रमुत्तमम् । विद्यां तपःप्रभावं च यस्माद्भ्रमसि मेदिनीम्
सर्वं विप्र प्रवक्ष्यामि स्वागतं तव सुव्रत । उपविश्यासने पुण्ये छायामाश्रयशीतलाम्
अव्यक्तप्रभवो ब्रह्मा तस्माज्जज्ञे प्रजापतिः । ब्राह्मणस्तु गुणैर्युक्तो भृगुर्ब्रह्मसमो द्विजः
भार्गवो नाम तस्यासीत्सर्वधर्मार्थतत्ववित् । तस्यान्वये भवान्विप्र च्यवनः ख्यातिमान्भुवि
नाहं देवो न गंधर्वो नाहं विद्याधरः पुनः । योहं विप्र प्रवक्ष्यामि तन्मे निगदतः शृणु
कश्यपस्य कुले जातः कश्चिद्ब्राह्मणसत्तमः । वेदवेदांगतत्त्वज्ञः सर्वकर्मप्रकाशकः
विद्याधरेति विख्यातः कुलशीलगुणैर्युतः । राजमानः श्रिया विप्र आचारैस्तपसा तदा
संबभूवुः सुतास्तस्य विद्याधरस्य ते त्रयः । वसुशर्मा नामशर्मा धर्मशर्मा च ते त्रयः
तेषामहं धर्मशर्मा कनिष्ठो गुणवर्जितः । वसुशर्मा मम भ्राता वेदशास्त्रार्थकोविदः
आचारेण सुसंपन्नो विद्यादिसुगुणैः पुनः । नामशर्मा महाप्राज्ञस्तद्वच्चासीद्गुणाधिकः
अहमेको महामूर्खः संजातः शृणु सत्तम । विद्यानामुत्तमं विप्र भावमर्थं शुभं कदा
न शृणोमि न वै यामि गुरुगेहमनुत्तमम् । ततस्तु जनको मे तु मामेवं परिचिंतयेत्
धर्मशर्मेति पुत्रस्य नामास्य तु निरर्थकम् । संजातः क्षितिमध्ये तु न विद्वान्मे गुणाकरः
इति संचिंत्य धर्मात्मा मामुवाच सुदुःखितः । व्रज पुत्र गुरोर्गेहं विद्यार्थं परिसाधय
एवमाकर्ण्य तत्तस्य पितुर्वाक्यं मयाशुभम् । नाहं तात गमिष्यामि गुरोर्गेहं सुदुःखदम्
यत्र वै ताडनं नित्यं भ्रूभंगादि च क्रोशनम् । अन्नं न दृश्यते तत्र कर्मणा शृणुसत्तम
दिवारात्रौ न निद्रास्ति नास्ति सुखस्य साधनम् । तस्माद्दुःखमयं तात न यास्ये गुरुमंदिरम्
विद्याकार्यं करिष्ये न क्रीडार्थमहमुत्सुकः । भोक्ष्ये स्वप्स्ये प्रसादात्ते करिष्ये क्रीडनं पितः
डिंभैः सार्द्धं सुखेनापि दिवारात्रमतंद्रितः । मामुवाच स धर्मात्मा मूढं ज्ञात्वा सुदुःखितः
विद्याधर उवाच- मा पुत्र साहसं कार्षीर्विद्यार्थमुद्यमं कुरु । विद्यया प्राप्यते सौख्यं यशः कीर्तिस्तथातुला
ज्ञानं स्वर्गश्च मोक्षश्च तस्माद्विद्यां प्रसाधय । पूर्वं सुदुःखमूला तु पश्चाद्विद्या सुखप्रदा
तस्मात्साधय पुत्र त्वं विद्यां गुरुगृहं व्रज । पितुर्वाक्यमकुर्वाणो अहमेवं दिनदिने
यत्रयत्र स्थितो नित्यमर्थहानिं करोम्यहम् । उपहासः कृतो लोकैर्ममविप्र प्रकुत्सनम्
मम लज्जा समुत्पन्ना जीवनाशकरी तदा । विद्यार्थमुद्यतो विप्र कं गुरुं प्रार्थयाम्यहम्
इति चिंतापरो जातो दुःखशोकसमाकुलः । कथं विद्यामहं जाने कथं विंदाम्यहं गुणान्
कथं मे जायते स्वर्गः कथं मोक्षं व्रजाम्यहम् । इत्येवं चिंतयन्विप्र वार्द्धक्यमगमं पुनः