तस्या वाक्यं समाकर्ण्य कालकृष्टो बभाष ताम् । रे रे दुष्ट दुराचार मम कर्मप्रदूषक
हन्मि त्वामिह खड्गेन अनेनापि न संशयः । इत्युक्त्वा ब्राह्मणं तं स निशितं खड्गमाददे
हंतुकामः स दुष्टात्मा अभ्यधावत दानवः । सा देवी विप्ररूपेण संक्रुद्धा परमेश्वरी
हन्मि त्वामिह खड्गेन अनेनापि न संशयः । स्वस्थानमागतं दृष्ट्वा हुंकारं विससर्ज ह । तेन हुंकारनादेन पतितो दानवाधमः
निश्चेष्टः कामरूपेण वज्राहत इवाचलः । पतिते दानवे तस्मिन्सर्वलोकविनाशके
लोकाः स्वास्थ्यं गताः सर्वे दुःखतापविवर्जिताः । एतस्मात्कारणाद्वत्स सा स्त्री वै परिदेवति
गंगातीरे वरारोहा दुःखव्याकुलमानसा । एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम्
विष्णुरुवाच- एवमुक्त्वा सुपुत्रं तं कुंजलो अंडजेश्वरः । विरराम महाप्राज्ञः किञ्चिन्नोवाच भूपते
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्याने एकविंशत्यधिकशततमोऽध्यायः
विष्णुरुवाच- कुंजलो धर्मपक्षी स इत्युक्त्वा तान्सुतान्प्रति । विरराम महाप्राज्ञः किंचिन्नोवाच तान्प्रति
वटाधःस्थो द्विजश्रेष्ठस्तमुवाच महाशुकम् । को भवान्धर्मवक्ता हि पक्षिरूपेण वर्तते
किं वा देवोऽथ गंधर्वः किं वा विद्याधरो भवान् । कस्य शापादिमां प्राप्तो योनिं कीरस्य पातकीम्
कस्मात्ते ईदृशं ज्ञानं वर्ततेऽतीद्रियं शुक । सुपुण्यस्य तु कस्यापि कस्य वै तपसः फलम्
किं वा च्छन्नेन रूपेण अनेनापि महामते । कस्त्वं सिद्धोऽसि देवो वा तन्मे कथय कारणम्
कुंजल उवाच- भोः सिद्ध त्वामहं जाने कुलं ते गोत्रमुत्तमम् । विद्यां तपःप्रभावं च यस्माद्भ्रमसि मेदिनीम्
सर्वं विप्र प्रवक्ष्यामि स्वागतं तव सुव्रत । उपविश्यासने पुण्ये छायामाश्रयशीतलाम्
अव्यक्तप्रभवो ब्रह्मा तस्माज्जज्ञे प्रजापतिः । ब्राह्मणस्तु गुणैर्युक्तो भृगुर्ब्रह्मसमो द्विजः
भार्गवो नाम तस्यासीत्सर्वधर्मार्थतत्ववित् । तस्यान्वये भवान्विप्र च्यवनः ख्यातिमान्भुवि
नाहं देवो न गंधर्वो नाहं विद्याधरः पुनः । योहं विप्र प्रवक्ष्यामि तन्मे निगदतः शृणु
कश्यपस्य कुले जातः कश्चिद्ब्राह्मणसत्तमः । वेदवेदांगतत्त्वज्ञः सर्वकर्मप्रकाशकः
विद्याधरेति विख्यातः कुलशीलगुणैर्युतः । राजमानः श्रिया विप्र आचारैस्तपसा तदा
संबभूवुः सुतास्तस्य विद्याधरस्य ते त्रयः । वसुशर्मा नामशर्मा धर्मशर्मा च ते त्रयः
तेषामहं धर्मशर्मा कनिष्ठो गुणवर्जितः । वसुशर्मा मम भ्राता वेदशास्त्रार्थकोविदः
आचारेण सुसंपन्नो विद्यादिसुगुणैः पुनः । नामशर्मा महाप्राज्ञस्तद्वच्चासीद्गुणाधिकः
अहमेको महामूर्खः संजातः शृणु सत्तम । विद्यानामुत्तमं विप्र भावमर्थं शुभं कदा
न शृणोमि न वै यामि गुरुगेहमनुत्तमम् । ततस्तु जनको मे तु मामेवं परिचिंतयेत्
धर्मशर्मेति पुत्रस्य नामास्य तु निरर्थकम् । संजातः क्षितिमध्ये तु न विद्वान्मे गुणाकरः
इति संचिंत्य धर्मात्मा मामुवाच सुदुःखितः । व्रज पुत्र गुरोर्गेहं विद्यार्थं परिसाधय
एवमाकर्ण्य तत्तस्य पितुर्वाक्यं मयाशुभम् । नाहं तात गमिष्यामि गुरोर्गेहं सुदुःखदम्
यत्र वै ताडनं नित्यं भ्रूभंगादि च क्रोशनम् । अन्नं न दृश्यते तत्र कर्मणा शृणुसत्तम