ततो वह्निं समाहूय ब्रह्मा वचनमब्रवीत् । शक्रहत्या चतुर्थांशं जातवेदो गृहाण भो
अग्निरुवाच। मम मोक्षस्य को हेतुर्ब्रह्महत्याकृते प्रभो । एतदिच्छामि विज्ञातुं तत्त्वतो लोकपूजित
ब्रह्मोवाच। यस्त्वां ज्वलंतमासाद्य न होष्यति नरः क्वचित् । बीजौषधितिलानग्रे फलमूलसमित्कुशान्
तदैव त्यक्षति त्वां च तत्रैव च निवत्स्यति । ब्रह्महत्या हव्यवाह व्येतु ते मनसो ज्वरः
ततः स परिजग्राह तद्वचो हव्यकव्यभुक् । पितामहश्च भगवान्तथा तदलभत्प्रियम्
ततो वृक्षौषधितृणान्याहूय स पितामहः । इममर्थं महाभागे वक्तुं समुपचक्रमे 6.168.
ततो वृक्षौषधितृणैस्तथैवोक्तं यथातथम् । व्यथितान्यग्निवद्देवि ब्रह्माणं वाक्यमब्रुवन्
अस्माकं ब्रह्महत्यायाः कथयंतः पितामह । स्वभाव निहिता तस्मान्न पुनर्हंतुमर्हसि
वयमग्निं तथा शीतं वर्षं च पवनेरितम् । सहामः सततं देव तथा छेदनभेदनम्
ब्रह्मोवाच। अकारणं नरो यस्तु युष्मच्छेदनभेदनम् । करिष्यति महामोहात्तमेषानु प्रयास्यति
महादेव उवाच। ततो महौषधितृणैरोमित्युक्तं महात्मभिः । ब्रह्माणमपि संपूज्य जग्मुश्चाथ यथागतम्
आहूयाप्सरसो देवस्ततो लोकपितामहः । वाचा मधुरया प्राह सांत्वयन्निव सत्तमे
इयं वृत्रादनुप्राप्ता ब्रह्महत्या वराङ्गनाः । चतुर्थमस्या भागं च मयोक्तं संप्रतीच्छथ
अप्सरा ऊचुः । ग्रहणे कृतबुद्धीनां देवेश तव शासनात् । संमोक्षसमयोऽस्माकं चिंतनीयः पितामह
पितामह उवाच। रजस्वलासु नारीषु यो वै मैथुनमाचरेत् । तमेषा यास्यति क्षिप्रं व्येतु वो मनसो ज्वरः
महादेव उवाच। तथेति हृष्टमनसः प्रत्युक्ता ह्यप्सरोगणाः । स्वानि स्थानानि संप्राप्य रेमिरे शैलजे तदा
ततश्च लोककृद्देवः पुनरेव पितामहः । आपः संचिंतयामास ततस्ताश्च समागमन्
ताश्च सर्वाः समागम्य ब्रह्माणममितौजसम् । इदमूचुर्वचो देवि प्रणिपत्य पितामहम्
इमाः स्म देव संप्राप्तास्त्वत्सकाशमरिंदम। शासनात्तव देवेश समाज्ञापय तत्प्रभो
ब्रह्मोवाच। इयं वृत्रादनुप्राप्ता पुरुहूतं भयानका । ब्रह्महत्या चतुर्थांशं यूयमस्याः प्रतीच्छथ
आप ऊचुः। एवं भवतु लोकेश यत्त्वं वदसि नः प्रभोः । मोक्षस्य समयं नस्त्वं संचिंतयितुमर्हसि
त्वं हि देवेंद्र सर्वस्य जगतः परमा गतिः । कोऽन्येभ्यो हि प्रसादोऽपि यः कृच्छ्रान्नः समुद्धरेत्
ब्रह्मोवाच। अल्पमेव मतिं कृत्वा यो नरो बुद्धिमोहितः
श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्षति । तमेव यास्यति क्षिप्रं तत्रैव च निवत्स्यति । ततो वै भविता मोक्ष इति सत्यं ब्रवीमि वः
महादेव उवाच। ततो विमुच्य देवेंद्रं ब्रह्महत्या सुरेश्वरि । गतातिहृष्टो देवेशो ह्यभवद्देवशासनात्
एवं शक्रेण संप्राप्ता ब्रह्महत्या पुरा युगे । अस्मिंस्तीर्थे तपस्तप्त्वा शुद्धात्मा त्रिदिवं ययौ
अश्वमेधं ततः कृत्वा विपाप्मा समपद्यत । इति साभ्रमती तीर्थे वार्त्रघ्नीयं नगात्मजे
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे। वार्त्रघ्नीमाहात्म्यंनामाष्टषष्ट्यधिकशततमोऽध्यायः
महेश उवाच। ततःपरं देवनदी वार्त्रघ्नी संगमात्किल । प्रविष्टा भद्रया सार्द्धं सागरं वरुणालयम्
समुद्रोऽपि तया तावदागम्य प्रियकाम्यया । साभ्रमत्यानुरागेण कृतवान्प्रियमेलनम्