पद्मैस्तु पुष्पितैः सोपि पूजयेद्गिरिजाप्रियम् । सप्तकोटिभिर्दैत्येंद्रो विष्णुमायाप्रमोहितः
अथ क्रुद्धा जगद्धात्री शंकरं वाक्यमब्रवीत् । पश्यैतस्य विकर्म त्वं दानवस्य महामते
शोकोत्पन्नानि पद्मानि गंगातोयगतानि वै । अयमेष प्रगृह्णाति कामाकुलितचेतनः
पूजयेच्चापि दुष्टात्मा शोकसंतापकारकैः । दुःखजैः शोकजैः पुष्पैस्तैः सुश्रेयः कथं भवेत्
यादृशेनापि भावेन मामेव परिपूजयेत् । तादृशेनापि भावेन अस्य सिद्धिर्भविष्यति
सत्यध्यानविहीनोयं कामोदा न्यस्तमानसः । संजातः पापचारित्रो जहि देवि स्वतेजसा
एवमाकर्ण्य तद्वाक्यं शंभोश्चैव महात्मनः । अस्यैव संक्षयं शंभो करिष्ये तव शासनात्
एवमुक्त्वा ततो देवी तस्यापि वधकांक्षया । वर्त्तते हि विहुंडस्य वधोपायं व्यचिंतयत्
कृत्वा मायामयं रूपं ब्राह्मणस्य महात्मनः । पूजयेच्छंकरं नाथं सुपुष्पैः पारिजातजैः
समेत्य दानवः पापो दिव्यां पूजां विनाशयेत् । कामाकुलः सुदुःखार्तस्तद्गतो भावतत्परः
विष्णोश्चैव महामायां पूर्वदृष्टां स दानवः । सस्मार दानवः पापः कामबाणैः प्रपीडितः
तस्याः स्मरणमात्रेण कंदर्पेण बलीयसा । विरहाकुलदुःखार्तो रोदते हि मुहुर्मुहुः
कालाकृष्टः स दुष्टात्मा शोकजातानि तानि सः । परिगृह्य समायातः पूजनार्थी महेश्वरम्
देव्या कृतां हि पूजां च सुपुष्पैः पारिजातजैः । तां निर्णाश्य सुलोभेन शोकजैः परिपूजयेत्
नेत्राभ्यां तस्य दुष्टस्य बिंदवस्तेऽश्रुसंभवाः । अविरलास्ततो वत्स पतंति लिंगमस्तके
देवी ब्राह्मणरूपेण तमुवाच महामते । को भवान्पूजयेद्देवं शोकाकुलमनाः सदा
पतंत्यश्रूणि देवस्य मस्तके शोकजानि ते । अपवित्राणि मे ब्रूहि एतमर्थं ममाग्रतः
विहुंड उवाच- पूर्वं दृष्टा मया नारी सर्वसौभाग्यसंपदा । सर्वलक्षणसंपन्ना कामस्यायतनं महत्
तस्या मोहेन संदग्धः कामेनाकुलतां गतः । तया प्रोक्तं हि संभोगे देहि मे दायमुत्तमम्
कामोदसंभवैः पुष्पैः पूजयस्व महेश्वरम् । तेषां पुष्पकृतां मालां मम कंठे परिक्षिप
कोटिभिः सप्तसंख्यातैः पूजयस्व महेश्वरम् । तदर्थं पूजयाम्येव ईश्वरं फलदायकम्
कामोदसंभवैः पुष्पैर्दुर्लभैर्देवदानवैः । श्रीदेव्युवाच- क्व ते भावः क्व ते ध्यानं क्व ते ज्ञानं दुरात्मनः
ईश्वरस्यापि संबंधो नास्ति किंचित्त्वयैव हि । कामोदाया वरं रूपं कीदृशं वद सांप्रतम्
क्व लब्धानि सुपुष्पाणि तस्या हास्योद्भवानि च । विहुंड उवाच- भावं ध्यानं न जानामि न दृष्टा सा मया कदा
गंगातोयगतान्येव परिगृह्णामि नित्यशः । तैरहं पूजयाम्येकं शंकरं प्रवदाम्यहम्
ममाग्रे कथितं विप्र शुक्रेणापि महात्मना । वचनात्तस्य देवेशमर्चयामि दिनदिने
एतत्ते सर्वमाख्यातं यच्च पृष्टोस्मि सांप्रतम् । श्रीदेव्युवाच- कामोदारोदनाज्जातैः पुष्पैस्तैर्दुःखसंभवैः
लिंगमर्चयसे दुष्ट प्रभाते नित्यमेव च । यादृशेनापि भावेन पुष्पैश्च यादृशैस्त्वया
अर्चितो देवदेवेशस्तादृशं फलमाप्नुहि । दिव्यपूजां विनाश्यैवं शोकपुष्पैः प्रपूजसि
असौ दोषस्तवैवाद्य समुत्पन्नः सुदारुणः । तस्माद्दण्डं प्रदास्यामि भुंक्ष्व स्वकर्मजं फलम्