तदेव वातिकं विद्धि कफवत्तद्वदाम्यहम् । जलं नदीं तडागं च पयः स्थानानि पश्यति
अग्निं च पश्यते देवि बहुकांचनमुत्तमम् । तदेव पैत्तिकं विद्धि भाव्यं चैव वदाम्यहम्
प्रभाते दृश्यते स्वप्नो भव्यो वाभव्य एव च । कर्मयुक्तो वरारोहे लाभालाभप्रकाशकः
स्वप्नस्यापि अवस्था मे कथिता वरवर्णिनि । तद्भाव्यंचवरारोहेविष्णोश्चैवभविष्यति
तन्निमित्तं त्वया दृष्टो दुःस्वप्नः स तु प्रेक्षितः
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्याने विंशाधिकशततमोऽध्यायः
कामोदोवाच- न विदुर्देवताः सर्वा यस्यांतं रूपमेव च । यस्मिल्लीँनस्तु सर्वोयं स चैकात्मा प्रकथ्यते
यस्या मायाप्रपंचस्तु संसारः शृणु नारद । कस्मात्प्रयाति संसारं मम स्वामी जगत्पतिः
पापैश्चापि सुपुण्यैश्च नरोबद्धस्तु कर्मभिः । संसारं सरते विप्र हरिः कस्माद्व्रजेद्वद
नारद उवाच- शृणु देवि प्रवक्ष्यामि यत्कृतं तेन चक्रिणा । भृगोरग्रे प्रतिज्ञातं यज्ञरक्षां करोम्यहम्
इंद्रस्य वचनात्सद्यो गतोऽसौ दानवैः सह । योद्धुं विहाय गोविंदो भृगोश्चैव मखोत्तमम्
मखं त्यक्त्वा गते देवे पश्चात्तैर्दानवोत्तमैः । आगत्य ध्वंसितः सर्वः स यज्ञः पापचेतनैः
हरिं क्रुद्धः स योगींद्रः शशाप भृगुरेव तम् । दशजन्मानि भुंक्ष्व त्वं मच्छापकलुषीकृतः
कर्मणः स्वस्य संभोगं संभोक्ष्यति जनार्दनः । तन्निमित्तं त्वया देवि दुःस्वप्नः परिवीक्षितः
इत्युक्त्वा तां गतो विप्रो ब्रह्मलोकं स नारदः । कृष्णस्यापि सुदुःखेन दुःखिता साभवत्तदा
रुरोद करुणं बाला हाहेति वदती मुहुः । गङ्गातीरोपविष्टा सा जलांते शृणु नन्दन
सुनेत्राभ्यां तथाश्रूणि दुःखेनापि प्रमुंचति । तान्यश्रूणि प्रमुक्तानि गंगातोये पतंत्यपि
जले चैव निमज्जंति तस्याश्चाप्यश्रुबिंदवः । संभवंति पुनस्तात पद्मरूपाणि तानि च
गंगातोये प्रफुल्लानि वाहितानि प्रयांति वै । ददृशे दानवश्रेष्ठो विष्णुमायाप्रमोहितः
दुःखजानि न जानाति मुनिना कथितान्यपि । हर्षेण महताविष्टः परिजग्राह सोऽसुरः
पद्मैस्तु पुष्पितैः सोपि पूजयेद्गिरिजाप्रियम् । सप्तकोटिभिर्दैत्येंद्रो विष्णुमायाप्रमोहितः
अथ क्रुद्धा जगद्धात्री शंकरं वाक्यमब्रवीत् । पश्यैतस्य विकर्म त्वं दानवस्य महामते
शोकोत्पन्नानि पद्मानि गंगातोयगतानि वै । अयमेष प्रगृह्णाति कामाकुलितचेतनः
पूजयेच्चापि दुष्टात्मा शोकसंतापकारकैः । दुःखजैः शोकजैः पुष्पैस्तैः सुश्रेयः कथं भवेत्
यादृशेनापि भावेन मामेव परिपूजयेत् । तादृशेनापि भावेन अस्य सिद्धिर्भविष्यति
सत्यध्यानविहीनोयं कामोदा न्यस्तमानसः । संजातः पापचारित्रो जहि देवि स्वतेजसा
एवमाकर्ण्य तद्वाक्यं शंभोश्चैव महात्मनः । अस्यैव संक्षयं शंभो करिष्ये तव शासनात्
एवमुक्त्वा ततो देवी तस्यापि वधकांक्षया । वर्त्तते हि विहुंडस्य वधोपायं व्यचिंतयत्
कृत्वा मायामयं रूपं ब्राह्मणस्य महात्मनः । पूजयेच्छंकरं नाथं सुपुष्पैः पारिजातजैः
समेत्य दानवः पापो दिव्यां पूजां विनाशयेत् । कामाकुलः सुदुःखार्तस्तद्गतो भावतत्परः