पंचैव आत्मना सार्द्धं प्रभवंति प्रयांति च । आत्मादयो ह्यमी भद्रे नित्यरूपा न संशयः
पिंड एव प्रणश्येत तेषां संजात एव च । विषयाणां सुदोषैः स रागद्वेषादिभिर्हतः
प्राणाः प्रयांति वै पिंडात्पंचपंचात्मका द्विज । पिंडांते वसते आत्मा प्रतिरूपस्तु तस्य च
अंतरात्मा यथा चाग्नेः स्फुलिंगस्तु प्रकाशते । तथा प्रकाशमायाति दृश्यादृश्यः प्रजायते
शुद्धात्मा च परं ब्रह्म सदा जागर्ति नित्यशः । अंतरात्मा प्रबद्धस्तु प्रकृतेश्च महागुणैः
अन्नाहारेण संपुष्टैरंतरात्मा सुखं व्रजेत् । सुसुखाज्जायते मोहस्तस्मान्मनः प्रमुह्यति
पश्चात्संजायते निद्रा तामसी लयवर्द्धिनी । नाडीमार्गेण यः सूर्यो मेरुमुल्लंघ्य गच्छति
तदा रात्रिः प्रजायेत यावन्नोदयते रविः । विषयांधकारैर्मुक्तस्तु अंतरात्मा प्रकाशते
भावैस्तत्त्वात्मकानां तु पंचतत्त्वैः प्रपोषितैः । पूर्वजन्मस्थितैः पिंडैरंतरात्मा प्रगृह्यते
स यास्यति च वै स्थानमुच्चावचं महामते । संसार अंतरात्मा वै दोषैर्बद्धः प्रणीयते
कायं रक्षति जीवात्मा पश्चात्तिष्ठति मध्यगः । उदानः स्फुरते तीव्रस्तस्माच्छब्दः प्रजायते
शुष्का भस्त्रा यथा श्वासं कुरुते वायुपूरिता । तद्वच्छब्दवशाच्छ्वासमुदानः कुरुते बलात्
आत्मनस्तु प्रभावेण उदानो बलवान्भवेत् । एवं कायः प्रमुग्धस्तु मृतकल्पः प्रजायते
ततो निद्रा महामाया तस्यांगेषु प्रयाति सा । हृदि कंठे तथा चास्ये नासिकाग्रे प्रतिष्ठति
बाहू संकुच्य संतिष्ठेद्धृद्गतो नाभिमंडले । आत्मनस्तु प्रभावाच्च उदानो नाम मारुतः
प्रजायते महातीव्रा बलरोधं करोति सः । यथा रज्ज्वा प्रबद्धस्तु दारु कीलधरः स्थितः
तथा चात्मासु संलग्नः प्राणवायुर्न संशयः । अंतरात्मप्रसक्तस्तु प्राणवायुः शुभानने
बुद्धिवद्रोहितो भद्रे अंतरात्मा प्रधावति । पूर्वजन्मार्जितान्वासान्स्मृत्वा तत्र प्रधावति
तत्र संस्थो महाप्राज्ञः स्वेच्छया रमते पुनः । एवं नानाविधान्स्वप्नानंतरात्मा प्रपश्यति
उत्तमांश्च विरुद्धांश्च कर्मयुक्तान्प्रपश्यति । गिरींस्तथा सुदुर्गांश्च उच्चावचान्प्रपश्यति
तदेव वातिकं विद्धि कफवत्तद्वदाम्यहम् । जलं नदीं तडागं च पयः स्थानानि पश्यति
अग्निं च पश्यते देवि बहुकांचनमुत्तमम् । तदेव पैत्तिकं विद्धि भाव्यं चैव वदाम्यहम्
प्रभाते दृश्यते स्वप्नो भव्यो वाभव्य एव च । कर्मयुक्तो वरारोहे लाभालाभप्रकाशकः
स्वप्नस्यापि अवस्था मे कथिता वरवर्णिनि । तद्भाव्यंचवरारोहेविष्णोश्चैवभविष्यति
तन्निमित्तं त्वया दृष्टो दुःस्वप्नः स तु प्रेक्षितः
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्याने विंशाधिकशततमोऽध्यायः
कामोदोवाच- न विदुर्देवताः सर्वा यस्यांतं रूपमेव च । यस्मिल्लीँनस्तु सर्वोयं स चैकात्मा प्रकथ्यते
यस्या मायाप्रपंचस्तु संसारः शृणु नारद । कस्मात्प्रयाति संसारं मम स्वामी जगत्पतिः
पापैश्चापि सुपुण्यैश्च नरोबद्धस्तु कर्मभिः । संसारं सरते विप्र हरिः कस्माद्व्रजेद्वद
नारद उवाच- शृणु देवि प्रवक्ष्यामि यत्कृतं तेन चक्रिणा । भृगोरग्रे प्रतिज्ञातं यज्ञरक्षां करोम्यहम्