तानि त्वं तु प्रतिगृहाण सुहृद्यानि महांति च । गृहीत्वा तानि पुष्पाणि साधयस्व मनीप्सितम्
नारदो दानवश्रेष्ठं मोहयित्वा ततः पुनः । ततश्च स तु धर्मात्मा चिंतयामास वै पुनः
कथमश्रूणि सा मुंचेत्केनोपायेन दुःखिता । चिंतयानस्य तस्यैवं क्षणं वै नारदस्य च
ततो बुद्धिः समुत्पन्ना कामोदाख्यं पुरं गतः
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्याने एकोनविंशत्यधिकशततमोऽध्यायः
कुंजल उवाच- कामोदाख्यं पुरं दिव्यं सर्वदेवसमाकुलम् । सर्वकामसमृद्ध्यर्थमपश्यन्नारदस्ततः
कामोदाया गृहं प्राप्य प्रविवेश द्विजोत्तमः । कामोदां तु ततो दृष्ट्वा सर्वकामसमाकुलाम्
तया संपूजितो विप्रः सुवाक्यैः स्वागतादिभिः । दिव्यासने समारूढस्तां पप्रच्छ द्विजोत्तमः
सुखेन स्थीयते भद्रे विष्णुतेजः समुद्भवे । अनामयं च पप्रच्छ आशीर्भिरभिनंद्य ताम्
कामोदोवाच-। प्रसादाद्भवतां विष्णोः सुखेन वर्तयाम्यहम् । कथयस्व महाप्राज्ञ त्वं प्रश्नोत्तरकारणम्
महामोहः समुत्पन्नो ममांगे मुनिपुंगव । व्यापकः सर्वलोकानां ममांगे मतिनाशकः
तस्मान्निद्रा समुत्पन्ना यथा मर्त्येषु वर्तते । सुप्तया तु मया दृष्टः स्वप्नो वै दारुणो मुने
केनाप्युक्तं समेत्यैव पुरतो द्विजसत्तम । अव्यक्तोऽसौ हृषीकेशः संसारं स गमिष्यति
तदा प्रभृति दुःखेन व्यापिताहं महामते । तन्मे त्वं कारणं ब्रूहि भवाञ्ज्ञानवतां वरः
नारद उवाच- वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः । स्वप्नः प्रवर्तते भद्रे मानवेषु न संशयः
न जायते च देवेषु स्वप्नो निद्रा च सुंदरि । आदित्योदयवेलायां दृश्यते स्वप्न उत्तमः
सत्स्वप्नो मानवानां हि पुण्यस्य फलदायकः । अन्यदेवं प्रवक्ष्यामि स्वप्नस्य कारणं शुभे
महावातांदोलनैश्च चलंत्यापो वरानने । त्रुटंत्यंबुकणाः सूक्ष्मास्तस्मादुदकसंचयात्
बहिरेव पतंत्येते निर्मलांबुकणाः शुभे । पुनर्लयं प्रयांत्येते दृश्यादृश्या भवंति वै
तद्वत्स्वप्नस्य वै भावः कथ्यते शृणु भामिनि । आत्मा शुद्धो विरक्तस्तु रागद्वेषविवर्जितः
पंचभूतात्मकानां च मुषित्वैव सुनिश्चलः । षड्विंशतिसु तत्वानां मध्ये चैष विराजते
शुद्धात्मा केवलो नित्यः प्रकृतेः संगतिं गतः । तद्भावैर्वायुरूपैश्च चलते स्थानतो यदा
आत्मनस्तेजसश्चैव प्रतितेजः प्रजायते । अंतरात्मा शुभं नाम तस्य एव प्रकथ्यते
पयसश्च यथा भिन्ना भवंत्यंबुकणाः शुभे । आत्मनस्तु तथा तेज अंतरात्मा प्रकथ्यते
स हि पृथ्वी स वै वायुः स चाप्याकाश एव हि । स वै तोयं स दीप्येत एते पंच पुरा कृताः
आत्मनस्तेजसो भूता मलरूपा महात्मनः । तस्यापि संगतिं प्राप्ता एकत्वं हि प्रयांति ते
स्वात्मभावप्रदोषेण नाशयंति वरानने । तत्पिंडमन्यमिच्छंति वारं वारं वरानने
तेषां क्रीडाविहारोयं सृष्टिसंबंधकारणम् । उदकस्य तरंगस्तु जायते च विलीयते
पुनर्भूतिः पुनर्हानिस्तादृशस्य पुनः पुनः । अपां रूपस्य दृष्टांतं तद्वदेषां न संशयः
आत्मा न नश्यते देवि तेजो वायुर्न नश्यति । न नश्यतो धराकाशौ न नश्यंत्याप एव च