लुब्धो विहुंडः पापात्मा तामुवाच वरांगनाम् । कासि कस्य वरारोहे ममचित्तप्रमाथिनि
संगमं देहि मे भद्रे रक्षरक्ष वरानने । संगमात्तव देवेशि यद्यदिच्छसि सांप्रतम्
तत्तद्दद्मि महाभागे दुर्लभं देवदानवैः । मायोवाच- मामेव भोक्तुमिच्छा चेद्दायं मे देहि दानव
सप्तकोटिमितैश्चैव पुष्पैः पूजय शंकरम् । कामोदसंभवैर्दिव्यैः सौगंधैर्देवदुर्लभैः
तेषां पुष्पकृतां मालां मम कंठे तु दानव । आरोपय महाभाग एतद्दायं प्रदेहि मे
तदाहं सुप्रिया भार्या भविष्यामि न संशयः । विहुंड उवाच- एवं देवि करिष्यामि वरं दद्मि प्रयाचितम्
वनानि यानि पुण्यानि दिव्यानि दितिजेश्वरः । बभ्राममन्मथाविष्टो न च पश्यति तं द्रुमम्
कामोदकाख्यं पप्रच्छ यत्रतत्र गतः स्वयम् । कामोदाख्यद्रुमो नास्ति वदंत्येवं महाजनाः
पृच्छमानः स दुष्टात्मा कामबाणैः प्रपीडितः । पप्रच्छ भार्गवं गत्वा भक्त्या नमित कंधरः
कामोदकं द्रुमं ब्रूहि कांतं पुष्पसमन्वितम् । शुक्र उवाच- कामोदः पादपो नास्ति योषिदेवास्ति दानव
यदा सा हसते चैव प्रसंगेन प्रहर्षिता । तद्धासाज्जज्ञिरे दैत्य सुगंधीनि वराण्यपि
सुमान्येतानि दिव्यानि कामोदाया न संशयः । हृद्यानि पीतपुष्पाणि सौरभेण युतानि च
तेनाप्येकेन पुष्पेण यः समर्चति शंकरम् । तस्येप्सितं महाकामं संपूरयति शंकरः
अस्याश्च रोदनाद्दैत्य प्रभवंति न संशयः । तादृशान्येव पुष्पाणि लोहितानि महांति च
सौरभेण विना दैत्य तेषां स्पर्शं न कारयेत् । एवमाकर्णितं तेन वाक्यं शुक्रस्य भाषितम्
उवाच सा तु कुत्रास्ति कामोदा भृगुनंदन । शुक्र उवाच- गंगाद्वारे महापुण्ये महापातकनाशने
कामोदाख्यं पुरं तत्र निर्मितं विश्वकर्मणा । कामोदपत्तने नारी दिव्यभोगैरलंकृता
तथा चाभरणैर्भाति सर्वदेवैः सुपूजिता । त्वया तत्रैव गंतव्यं पूजितव्या वराप्सराः
उपायेनापि पुण्येन तां प्रहासय दानव । एवमुक्त्वा तु योगींद्र सः शुक्रो दानवं प्रति
विरराम महातेजाः स्वकार्यायोद्यतोऽभवत्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्यानेऽष्टादशाधिकशततमोऽध्यायः
एकोनविंशत्यधिकशततमोऽध्यायः । कपिंजल उवाच- यस्याः प्रहसनात्तात सुहृद्यानि भवंति वै । पुष्पाणि दिव्यगंधीनि दुर्लभानि सुरासुरैः
कस्मात्तु देवताः सर्वाः प्रवांछंति महामते । शंकरः सुखमायाति हास्यपुष्पैः सुपूजितः
को गुणस्तस्य पुष्पस्य तन्मे कथय विस्तरात् । कामोदा सा भवेत्का तु कस्य पुत्री वरांगना
हास्यात्तस्या महाभाग सुपुष्पाणि भवंति च । को गुणस्तत्कथां ब्रूहि सकलां विस्तरेण च
कुंजल उवाच- पुरा देवैर्महादैत्यैः कृत्वा सौहार्दमुत्तमम् । ममंथुः सागरं क्षीरममृतार्थं समुद्यताः
मथनाद्देवदैत्यानां कन्यारत्नचतुष्टयम् । वरुणेन दर्शितं पूर्वं सोमेनैव तथा पुनः
पश्चात्संदर्शितं पुण्यममृतं कलशे स्थितम् । कन्या चतुष्टयं पूर्वं देवानां हितमिच्छति
सुलक्ष्मीर्नाम सा चैका द्वितीया वारुणी तथा । ज्येष्ठा नाम तथा ख्याता कामोदान्या प्रचक्षते
तासां मध्ये वरा श्रेष्ठा पूर्वं जाता महामते । तस्माज्ज्येष्ठेति विख्याता लोके पूज्या सदैव हि