गंगामध्ये निमज्जंति भवंति कमलानि च । पुष्पाणि दिव्यरूपाणि सौगंधानि महांति च
तस्यास्तात सुनेत्राभ्यां किमर्थं प्रपतंति च । गंगोदके महाभाग निर्मला अश्रुबिंदवः
अस्थिचर्मावशेषस्तु जटाचीरधरः पुनः । तानि सौगंधयुक्तानि पद्मानि विचिनोति सः
हेमवर्णानि दिव्यानि नीत्वा शिवं समर्चयेत् । सा का नारी समाचक्ष्व स वा को हि महामते
अर्चयित्वा शिवं सोथ कस्मात्पश्चात्प्रदेवति । एतन्मे सर्वमाचक्ष्व यद्यहं वल्लभस्तव
कुंजल उवाच- शृणु वत्स प्रवक्ष्यामि वृत्तांतं देवनिर्मितम् । चरित्रं सर्वपापघ्नं विष्णोश्चैव महात्मनः
योसौ हुंडो महावीर्यो नहुषेण हतो रणे । तस्य पुत्रस्तु विख्यातो विहुंडस्तप आस्थितः
निहतं पितरं श्रुत्वा सामात्यं सपरिच्छदम् । आयुपुत्रेण वीरेण नहुषेण बलीयसा
तपस्तपति सक्रोधाद्देवान्हंतुं समुद्यतः । पौरुषं तस्य दुष्टस्य तपसा वर्द्धितस्य च
जानंति देवताः सर्वा दुःसहं समरांगणे । हुंडात्मजो विहुंडस्तु त्रैलोक्यं हंतुमुद्यतः
पितुर्वैरं करिष्यामि हनिष्ये मानवान्सुरान् । एवं समुद्यतः पापी देवब्राह्मणकंटकः
उपद्रवं समारेभे प्रजाः पीडयते च सः । तस्यैव तेजसा दग्धा देवाश्चेंद्रपुरोगमाः
शरणं देवदेवस्य जग्मुर्विष्णोर्महात्मनः । देवदेवं जगन्नाथं शंखचक्रगदाधरम्
ऊचुश्च पाहि नो नित्यं विहुंडस्य महाभयात् । श्रीविष्णुरुवाच- वर्द्धंतु देवताः सर्वाः सुसुखेन महेश्वराः
विहुंडं नाशयिष्यामि पापिष्ठं देवकंटकम् । एवमाभाष्य तान्देवान्मायां कृत्वा जनार्दनः
स्वयमेवस्थितस्तत्र नंदने सुमहायशाः । मायामयं चकाराथ स्त्रीरूपं च गुणान्वितम्
विष्णुमाया महाभागा सर्वविश्वप्रमोहिनी । चकार रूपमतुलं विष्णोर्मायाप्रमोहिनी
विहुंडस्य वधार्थाय रूपलावण्यशालिनी । कुंजल उवाच- स देवानां वधार्थाय दिव्यमार्गं जगाम ह
नंदनांते ततो मायामपश्यद्दितिजेश्वरः । तया विमोहितो दैत्यः कामबाणकृतांतरः
आत्मनाशं न जानाति कालरूपां वरस्त्रियम् । तां दृष्ट्वा नवहेमाभां रूपद्रविणशालिनीम्
लुब्धो विहुंडः पापात्मा तामुवाच वरांगनाम् । कासि कस्य वरारोहे ममचित्तप्रमाथिनि
संगमं देहि मे भद्रे रक्षरक्ष वरानने । संगमात्तव देवेशि यद्यदिच्छसि सांप्रतम्
तत्तद्दद्मि महाभागे दुर्लभं देवदानवैः । मायोवाच- मामेव भोक्तुमिच्छा चेद्दायं मे देहि दानव
सप्तकोटिमितैश्चैव पुष्पैः पूजय शंकरम् । कामोदसंभवैर्दिव्यैः सौगंधैर्देवदुर्लभैः
तेषां पुष्पकृतां मालां मम कंठे तु दानव । आरोपय महाभाग एतद्दायं प्रदेहि मे
तदाहं सुप्रिया भार्या भविष्यामि न संशयः । विहुंड उवाच- एवं देवि करिष्यामि वरं दद्मि प्रयाचितम्
वनानि यानि पुण्यानि दिव्यानि दितिजेश्वरः । बभ्राममन्मथाविष्टो न च पश्यति तं द्रुमम्
कामोदकाख्यं पप्रच्छ यत्रतत्र गतः स्वयम् । कामोदाख्यद्रुमो नास्ति वदंत्येवं महाजनाः
पृच्छमानः स दुष्टात्मा कामबाणैः प्रपीडितः । पप्रच्छ भार्गवं गत्वा भक्त्या नमित कंधरः
कामोदकं द्रुमं ब्रूहि कांतं पुष्पसमन्वितम् । शुक्र उवाच- कामोदः पादपो नास्ति योषिदेवास्ति दानव