सर्वशोभासमाकीर्णं विवेश स पुरोत्तमम् । वेदमंगलघोषैश्च ब्राह्मणैश्चैव पूजितः
ददृशे पितरं वीरो मातरं च सुपुण्यकाम् । हर्षेण महताविष्टः पितुः पादौ ननाम सः
अशोकसुंदरी सा तु तयोः पादौ पुनः पुनः । ननाम भक्त्या भावेन उभयोः सा वरानना
रंभा च सा ननामाथ प्रीतिं चैवाप्यदर्शयत् । नमस्कृत्वा समाभाष्य स्वगुरुं नृपनंदनः
अनामयं च पप्रच्छ मातरं पितरं प्रति । एवमुक्तो महाभागः सानंदपुलकोद्गमः
आयुरुवाच- अद्यैव व्याधयो नष्टा दुःखशोकावुभौ गतौ । भवतो दर्शनात्पुत्र सुतुष्ट्या हृष्यते जगत्
कृतकृत्योस्मि संजातस्त्वयि जाते महौजसि । स्ववंशोद्धरणं कृत्वा अहमेव समुद्धृतः
इंदुमत्युवाच- पर्वणि प्राप्य इंदोस्तु तेजो दृष्ट्वा महोदधिः । वृद्धिं याति महाभाग तथाहं तव दर्शनात्
वर्द्धितास्मि सुहृष्टास्मि आनंदेन समाकुला । दर्शनात्ते महाप्राज्ञ धन्या जातास्मि मानद
एवं संभाष्य तं पुत्रमालिंग्य तनयोत्तमम् । शिरश्चाघ्राय तस्यापि वत्सं धेनुर्यथा स्वकम्
अभिनंद्य सुतं प्राप्तं नहुषं देवरूपिणम् । आशीर्भिश्चार्चयद्देवी पुण्या इंदुमती तदा
सूत उवाच- अथासौ मातरं पुण्यां देवीमिंदुमतीं सुतः । कथयामास वृत्तांतं यथाहरणमात्मनः
स्वभार्यायास्तथोत्पत्तिं प्राप्तिं चैव महायशाः । हुंडेनापि यथा युद्धं हुंडस्यापि निपातनम्
समासेन समस्तं तदाख्यातं स्वयमेव हि । मातापित्रोर्यथा वृत्तं तयोरानंददायकम्
मातापितरावाकर्ण्य पुत्रस्य विक्रमोद्यमम् । हर्षेण महताविष्टौ संजातौ पूर्णमानसौ
नहुषो धनुरादाय इंद्रस्य स्यंदनेन वै । जिगाय पृथिवीं सर्वां सप्तद्वीपां सपत्तनाम्
पित्रे समर्पयामास वसुपूर्णां वसुंधराम् । पितरं हर्षयन्नित्यं दानधर्मैः सुकर्मभिः
पितरं याजयामास राजसूयादिभिस्तदा । महायज्ञैश्च दानैश्च व्रतैर्नियमसंयमैः
सुदानैर्यशसा पुण्यैर्यज्ञैः पुण्यमहोदयैः । सुसंपूर्णौ कृतौ तौ तु पितरौ चायुसूनुना
अथ देवाः समागत्य नागाह्वयं पुरोत्तमम् । अभ्यषिंचन्महात्मानं नहुषं वीरमर्दनम्
मुनिभिश्च सुसिद्धैश्च आयुना तेन भूभुजा । अभिषिंच्य स्वराज्ये तं समेतं शिवकन्यया
भार्यायुक्तः स्वकायेन आयु राजा महायशाः । दिवं जगाम धर्मात्मा देवैः सिद्धैः सुपूजितः
ऐंद्रं पदं परित्यज्य ब्रह्मलोकं गतः पुनः । हरलोकं जगामाथ मुनिभिर्देवपूजितः
स्वकर्मभिर्महाराजः पुत्रस्यापि सुतेजसा । हरेर्लोकं गतः पुण्यैर्निवसत्येष भूपतिः
पुरुषैः पुण्यकर्माख्यैरीदृशं पुण्यमुत्तमम् । जनितव्यं महाभाग किमन्यैः शोककारकैः
यथा जातः स धर्मात्मा नहुषः पितृतारकः । कुलस्य धर्त्ता सर्वस्य नहुषो ज्ञानपंडितः
एतत्ते सर्वमाख्यातं चरित्रं तस्य भूपतेः । अन्यत्किं ते प्रवक्ष्यामि वद पुत्र कपिंजल
एवंविधं पुण्यमयं पवित्रं चरित्रमेतद्यशसा समेतम् । आयोः सुतस्यापि शृणोति मर्त्यो भोगान्स भुक्त्वैति पदं मुरारेः
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने सप्तदशाधिकशततमोऽध्यायः
कपिंजल उवाच- गंगामुखे पुरा तात रोदमाना वरांगना । नेत्राभ्यामश्रुबिंदूनि पतंति च महाजले