यथा युद्धं रणे जातं निहतो दानवाधमः । निवेदयामास सर्वं वशिष्ठाय महात्मने
वशिष्ठोऽपि समाकर्ण्य नहुषस्य विचेष्टितम् । हर्षेण महताविष्ट आशीर्भिरभिनंद्य तम्
तिथौ लग्ने शुभे प्राप्ते तयोस्तु मुनिपुंगवः । विवाहं कारयामास अग्निब्राह्मणसन्निधौ
आशीर्भिरभिनंद्यैव मिथुनं प्रेषितं पुनः । मातरं पितरं पश्य द्रुतं गत्वा महामते
त्वां च दृष्ट्वा हि ते माता पितासौ तव सुव्रत । हर्षेण वृद्धिमाप्नोतु पर्वणीव तु सागरः
एवं संप्रेषितो वीरो मुनिना ब्रह्मसूनुना । तेनैव रथवर्येण जगाम लघुविक्रमः
नमस्कृत्य द्विजेंद्रं तं गतो मातलिना तदा । स्वपुरं पितरं द्रष्टुं तथैव च स्वमातरम्
सूत उवाच- अप्सरा मेनिका नाम प्रेषिता दैवतैस्ततः । आयोर्भार्या सुदुःखेन पतिता शोकसागरे
तामुवाच महाभागां देवीमिंदुमतीं प्रति । मुंच शोकं महाभागे तनयं पश्य सस्नुषम्
निहत्य दानवं पापं तव पुत्रापहारकम् । समायांतं सभायां च वीरश्रियासमन्वितम्
सुवृत्तं संगरे तस्य नहुषेण यथा कृतम् । तस्यै निवेदयामास इंदुमत्यै च मेनिका
मेनिकाया वचः श्रुत्वा हर्षेण महतान्विता । सखि सत्यं ब्रवीषि त्वमित्युवाच सगद्गदम्
सामृतं सुप्रियं प्रोक्तं मनःप्रोत्साहकारकम् । जीवादिकं मया देयं त्वयि सर्वस्वमेव हि
एवमाभाष्य तां देवी राजानमिदमब्रवीत् । तव पुत्रो महाबाहुः समायातो हि सांप्रतम्
आख्याति च महाराज एषा मे वै वराप्सराः । भर्तारमेवमाभाष्य विरराम सुहर्षिता
समाकर्ण्य नृपेंद्रस्तु तामुवाच प्रियां प्रति । पुरा प्रोक्तं महाभागे मुनिना नारदेन हि
पुत्रं प्रति न कर्तव्यं दुःखं राजंस्त्वया कदा । तं निहत्य सुवीर्येण दानवं चैष्यते सुतः
संजातं सत्यमेवं वै मुनिना भाषितं पुरा । अन्यथा वचनं तस्य कथं देवि भविष्यति
दत्तात्रेयो मुनिश्रेष्ठः साक्षाद्देवो भविष्यति । शुश्रूषितस्त्वया देवि मया च तपसा पुरा
पुत्ररत्नं तेन दत्तं वैष्णवांशप्रधारकम् । सदा हनिष्यति परं दानवं पापचेतनम्
सर्वदैत्यप्रहर्ता च प्रजापालो महाबलः । दत्तात्रेयेण मे दत्तो वैष्णवांशः सुतोत्तमः
एवं संभाष्य तां देवीं राजा चेंदुमतीं तदा । महोत्सवं ततश्चक्रे पुत्रस्यागमनं प्रति
हर्षेण महताविष्टो विष्णुं सस्मार वै पुनः
सर्वोपपन्नं सुरवर्गयुक्तमानंदरूपं परमार्थमेकम् । क्लेशापहं सौख्यप्रदं नराणां सद्वैष्णवानामिह मोक्षदं परम्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने षोडशाधिकशततमोऽध्यायः
कुंजल उवाच- नहुषः प्रियया सार्द्धं तया चैव सरंभया । ऐंद्रेणापि स दिव्येन स्यंदनेन वरेण च
नागाह्वयं पुरं प्राप्तः सर्वशोभासमन्वितम् । दिव्यैर्मंगलकैर्युक्तं भवनैरुपशोभितम्
हेमतोरणसंयुक्तं पताकाभिरलंकृतम् । नानावादित्रनादैश्च बंदिचारणशोभितम्
देवरूपोपमैः पुण्यैः पुरुषैः समलंकृतम् । नारीभिर्दिव्यरूपाभिर्गजाश्वैः स्यंदनैस्तथा
नानामंगलशब्दैश्च वेदध्वनिसमाकुलम् । गीतवादित्रशब्दैश्च वीणावेणुस्वनैस्ततः