खड्गचर्मधरो दैत्यो राजानं तमधावत । धावमानस्य हुंडस्य खड्गं चिच्छेद भूपतिः
क्षुरप्रैर्निशितैर्बाणैश्चर्म चिच्छेद भूपतिः । अथ हुंडः स दुष्टात्मा समालोक्य समंततः
जग्राह मुद्गरं तूर्णं मुमोच लघुविक्रमः । वज्रवेगं समायांतं ददृशे नृपतिस्तदा
मुद्गरं स्वनवंतं चापातयदंबरात्ततः । दशभिर्निशितैर्बाणैः क्षुरप्रैश्च स्वविक्रमात्
मुद्गरं पतितं दृष्ट्वा दशखण्डमयं भुवि । गदामुद्यम्य वेगेन राजानमभ्यधावत
खड्गेन तीक्ष्णधारेण तस्य बाहुं विचिच्छिदे । सगदं पतितं भूमौ सांगदं कटकान्वितम्
महारावं ततः कृत्वा वज्रस्फोटसमं तदा । रुधिरेणापि दिग्धांगो धावमानो महाहवे
क्रोधेन महताविष्टो ग्रस्तुमिच्छति भूपतिम् । दुर्निवार्यः समायातः पार्श्वं तस्य च भूपतेः
नहुषेण महाशक्त्या ताडितो हृदि दानवः । पतितः सहसा भूमौ वज्राहत इवाचलः
तस्मिन्दैत्ये गते भूमावितरे दानवा गताः । विविशुः कति दुर्गेषु कति पातालमाश्रिताः
देवाः प्रहर्षमाजग्मुर्गंधर्वाः सिद्धचारणाः । हते तस्मिन्महापापे नहुषेण महात्मना
तस्मिन्हते दैत्यवरे महाहवे देवाश्च सर्वे प्रमुदं प्रलेभिरे । तां देवरूपां तपसा प्रवर्द्धितां स आयुपुत्रः प्रतिलभ्य हर्षितः
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने पंचदशाधिकशततमोऽध्यायः
कुंजल उवाच- अशोकसुंदरी पुण्या रंभया सह हर्षिता । नहुषं प्राप्य विक्रांतं तमुवाच तपस्विनी
अहं ते धर्मतः पत्नी देवैर्दिष्टा तपस्विनी । उद्वाहयस्व मां वीर यदि धर्ममिहेच्छसि
सदैव चिंत्यमाना च त्वामहं तपसि स्थिता । भवान्धर्मप्रसादेन मया प्राप्तो नृपोत्तम
नहुष उवाच- मदर्थे नियता भद्रे यदि त्वं तपसि स्थिता । गुरोर्वाक्यान्मुहूर्तेन तव भर्ता भवाम्यहम्
अनया रंभया सार्द्धमावां गच्छाव भामिनि । समारोप्य रथे तां तु तां रंभां तु मनोरमाम्
तेनैव रथवर्येण वशिष्ठस्याश्रमं प्रति । जगाम लघुवेगेन ताभ्यां सह महायशाः
तमाश्रमगतं विप्रं समालोक्य प्रणम्य च । तया सार्द्धं महातेजा हर्षेण महतान्वितः
यथा युद्धं रणे जातं निहतो दानवाधमः । निवेदयामास सर्वं वशिष्ठाय महात्मने
वशिष्ठोऽपि समाकर्ण्य नहुषस्य विचेष्टितम् । हर्षेण महताविष्ट आशीर्भिरभिनंद्य तम्
तिथौ लग्ने शुभे प्राप्ते तयोस्तु मुनिपुंगवः । विवाहं कारयामास अग्निब्राह्मणसन्निधौ
आशीर्भिरभिनंद्यैव मिथुनं प्रेषितं पुनः । मातरं पितरं पश्य द्रुतं गत्वा महामते
त्वां च दृष्ट्वा हि ते माता पितासौ तव सुव्रत । हर्षेण वृद्धिमाप्नोतु पर्वणीव तु सागरः
एवं संप्रेषितो वीरो मुनिना ब्रह्मसूनुना । तेनैव रथवर्येण जगाम लघुविक्रमः
नमस्कृत्य द्विजेंद्रं तं गतो मातलिना तदा । स्वपुरं पितरं द्रष्टुं तथैव च स्वमातरम्
सूत उवाच- अप्सरा मेनिका नाम प्रेषिता दैवतैस्ततः । आयोर्भार्या सुदुःखेन पतिता शोकसागरे
तामुवाच महाभागां देवीमिंदुमतीं प्रति । मुंच शोकं महाभागे तनयं पश्य सस्नुषम्
निहत्य दानवं पापं तव पुत्रापहारकम् । समायांतं सभायां च वीरश्रियासमन्वितम्