उभयोर्वीरयोर्युद्धं देवविस्मयकारकम् । तदा आसीन्महाप्राज्ञ दारुणं भीतिदायकम्
सुबाणैर्निशितैस्तीक्ष्णैः कंकपत्रैः शिलीमुखैः । हुंडेन ताडितो राजा सुबाह्वोरंतरे तदा
सुभाले पंचभिर्बाणैर्विद्धः क्रुद्धोऽभवत्तदा । सविद्धस्तु तदा बाणैरधिकं शुशुभे नृपः
सारुणः करमालाभिरुदयंश्च दिवाकरः । रुधिरेण तु दिग्धांगो हेमबाणैस्तनुस्थितैः
सूर्यवच्छोभते राजा पूर्वकालस्य चांबरे । दृष्ट्वा तु पौरुषं तस्य दानवं वाक्यमब्रवीत्
तिष्ठतिष्ठ क्षणं दैत्य पश्य मे लाघवं पुनः । इत्युक्त्वा तु रणे दैत्यं जघान दशभिः शरैः
मुखे भाले हतस्तेन मूर्च्छितो निपपात ह । पश्यामानैः सुरैर्दिव्यै रथोपरि महाबलः
देवैश्च चारणैः सिद्धैः कृतः शब्दः सुहर्षजः । जयजयेति राजेंद्र शंखान्दध्मुः पुनः पुनः
सकोलाहलशब्दस्तु तुमलो देवतेरितः । कर्णरंध्रमाविवेश हुंडस्य मूर्छितस्य च
श्रुत्वा सधनुरादाय बाणमाशीविषोपमम् । स्थीयतां स्थीयतां युद्धे न मृतोस्मि त्वया हतः
इत्युक्त्वा पुनरुत्थाय लाघवेन समन्वितः । एकविंशतिभिर्बाणैर्नहुषं चाहनत्पुनः
एकेन मुष्टिमध्ये तु चतुर्भिर्बाहुमध्यतः । चतुर्भिश्च महाश्वांश्च छत्रमेकेन तेन वै
पंचभिर्मातलिं विद्ध्वा रथनीडं तु सप्तभिः । ध्वजदंडं त्रिभिस्तीक्ष्णैर्दानवः शिखिपत्रिभिः
आदानं तु निदानं तु लक्षमोक्षं दुरात्मनः । लाघवं तस्य संदृष्ट्वा देवता विस्मयंगताः
तस्य पौरुषमापश्य स राजा दानवोत्तमम् । शूरोसि कृतविद्योसि धीरोसि रणपंडितः
इत्युक्वा दानवं तं तु धनुर्विस्फार्य भूपतिः । मार्गणैर्दशभिस्तं तु विव्याध लघुविक्रमः
त्रिभिर्ध्वजं प्रचिच्छेद स पपात धरातले । तुरगान्पातयामास चतुर्भिस्तस्य सायकैः
एकेन छत्रं तस्यापि चकर्त लघुविक्रमः । दशभिः सारथिस्तस्य प्रेषितो यममंदिरम्
दंशनं दशभिश्छित्त्वा शरैश्च विदलीकृतः । सर्वांगेषु च त्रिंशद्भिर्विव्याध दनुजेश्वरम्
हताश्वो विरथो जातो बाणपाणिर्धनुर्धरः । अभ्यधावत्स वेगेन वर्षयन्निशितैः शरैः
खड्गचर्मधरो दैत्यो राजानं तमधावत । धावमानस्य हुंडस्य खड्गं चिच्छेद भूपतिः
क्षुरप्रैर्निशितैर्बाणैश्चर्म चिच्छेद भूपतिः । अथ हुंडः स दुष्टात्मा समालोक्य समंततः
जग्राह मुद्गरं तूर्णं मुमोच लघुविक्रमः । वज्रवेगं समायांतं ददृशे नृपतिस्तदा
मुद्गरं स्वनवंतं चापातयदंबरात्ततः । दशभिर्निशितैर्बाणैः क्षुरप्रैश्च स्वविक्रमात्
मुद्गरं पतितं दृष्ट्वा दशखण्डमयं भुवि । गदामुद्यम्य वेगेन राजानमभ्यधावत
खड्गेन तीक्ष्णधारेण तस्य बाहुं विचिच्छिदे । सगदं पतितं भूमौ सांगदं कटकान्वितम्
महारावं ततः कृत्वा वज्रस्फोटसमं तदा । रुधिरेणापि दिग्धांगो धावमानो महाहवे
क्रोधेन महताविष्टो ग्रस्तुमिच्छति भूपतिम् । दुर्निवार्यः समायातः पार्श्वं तस्य च भूपतेः
नहुषेण महाशक्त्या ताडितो हृदि दानवः । पतितः सहसा भूमौ वज्राहत इवाचलः
तस्मिन्दैत्ये गते भूमावितरे दानवा गताः । विविशुः कति दुर्गेषु कति पातालमाश्रिताः