न शेकुर्दानवाः सर्वे बाणवर्षं महात्मनः । मृताः केचिद्द्रुताः केचित्केचिन्नष्टा महाहवात्
सूत उवाच- महातेजं महाप्राज्ञं महादानवनाशनम् । चुक्रोध हुंडो दुष्टात्मा दृष्ट्वा तं नृपनंदनम्
स्थितो गत्वेदमाभाष्य तिष्ठतिष्ठेति चाहवे । त्वामद्य च नयिष्यामि आयुपुत्र यमांतिकम्
नहुष उवाच- स्थितोस्मि समरे पश्य त्वामहं हंतुमागतः । अहं त्वां तु हनिष्यामि दानवं पापचेतनम्
इत्युक्त्वा धनुरादाय बाणानग्निशिखोपमान् । छत्रेण ध्रियमाणेन शुशुभे सोऽपि संयुगे
इंद्रस्य सारथिं दिव्यं मातलिं वाक्यमब्रवीत् । वाहयतु रथं मेऽद्य हुंडस्य सम्मुखं भवान्
इत्युक्तस्तेन वीरेण मातलिर्लघुविक्रमः । तुरगांश्चोदयामास महावातजवोपमान्
उत्पेतुश्च ततो वाहा हंसा इव यथांबरे । छत्रेण इंदुवर्णेन रथेनापि पताकिना
नभस्तलं तु संप्राप्य यथा सूर्यो विराजते । आयुपुत्रस्तथा संख्ये तेजसा विक्रमेण तु
अथ हुंडो रथस्थोऽपि राजमानः स्वतेजसा । सर्वायुधैश्च संयुक्तस्तद्वद्वीरव्रते स्थितः
उभयोर्वीरयोर्युद्धं देवविस्मयकारकम् । तदा आसीन्महाप्राज्ञ दारुणं भीतिदायकम्
सुबाणैर्निशितैस्तीक्ष्णैः कंकपत्रैः शिलीमुखैः । हुंडेन ताडितो राजा सुबाह्वोरंतरे तदा
सुभाले पंचभिर्बाणैर्विद्धः क्रुद्धोऽभवत्तदा । सविद्धस्तु तदा बाणैरधिकं शुशुभे नृपः
सारुणः करमालाभिरुदयंश्च दिवाकरः । रुधिरेण तु दिग्धांगो हेमबाणैस्तनुस्थितैः
सूर्यवच्छोभते राजा पूर्वकालस्य चांबरे । दृष्ट्वा तु पौरुषं तस्य दानवं वाक्यमब्रवीत्
तिष्ठतिष्ठ क्षणं दैत्य पश्य मे लाघवं पुनः । इत्युक्त्वा तु रणे दैत्यं जघान दशभिः शरैः
मुखे भाले हतस्तेन मूर्च्छितो निपपात ह । पश्यामानैः सुरैर्दिव्यै रथोपरि महाबलः
देवैश्च चारणैः सिद्धैः कृतः शब्दः सुहर्षजः । जयजयेति राजेंद्र शंखान्दध्मुः पुनः पुनः
सकोलाहलशब्दस्तु तुमलो देवतेरितः । कर्णरंध्रमाविवेश हुंडस्य मूर्छितस्य च
श्रुत्वा सधनुरादाय बाणमाशीविषोपमम् । स्थीयतां स्थीयतां युद्धे न मृतोस्मि त्वया हतः
इत्युक्त्वा पुनरुत्थाय लाघवेन समन्वितः । एकविंशतिभिर्बाणैर्नहुषं चाहनत्पुनः
एकेन मुष्टिमध्ये तु चतुर्भिर्बाहुमध्यतः । चतुर्भिश्च महाश्वांश्च छत्रमेकेन तेन वै
पंचभिर्मातलिं विद्ध्वा रथनीडं तु सप्तभिः । ध्वजदंडं त्रिभिस्तीक्ष्णैर्दानवः शिखिपत्रिभिः
आदानं तु निदानं तु लक्षमोक्षं दुरात्मनः । लाघवं तस्य संदृष्ट्वा देवता विस्मयंगताः
तस्य पौरुषमापश्य स राजा दानवोत्तमम् । शूरोसि कृतविद्योसि धीरोसि रणपंडितः
इत्युक्वा दानवं तं तु धनुर्विस्फार्य भूपतिः । मार्गणैर्दशभिस्तं तु विव्याध लघुविक्रमः
त्रिभिर्ध्वजं प्रचिच्छेद स पपात धरातले । तुरगान्पातयामास चतुर्भिस्तस्य सायकैः
एकेन छत्रं तस्यापि चकर्त लघुविक्रमः । दशभिः सारथिस्तस्य प्रेषितो यममंदिरम्
दंशनं दशभिश्छित्त्वा शरैश्च विदलीकृतः । सर्वांगेषु च त्रिंशद्भिर्विव्याध दनुजेश्वरम्
हताश्वो विरथो जातो बाणपाणिर्धनुर्धरः । अभ्यधावत्स वेगेन वर्षयन्निशितैः शरैः