एवमाकर्ण्य तत्सर्वं नहुषस्य महात्मनः । गत्वा हुंडं स दुष्टात्मा आचचक्षेऽस्य भाषितम्
निशम्य तन्मुखात्तूर्णं चुक्रोध दितिजेश्वरः । कस्मात्सूदेन पापेन तया दास्या न घातितः
सोयं वृद्धिं समायातो मया व्याधिरुपेक्षितः । अथैनं घातयिष्यामि अनया शिवकन्यया
आयोः पुत्रं खलं युद्धे बाणैरेभिः शिलाशितैः । एवं सचिंतयित्वा तु सारथिं वाक्यमब्रवीत्
स्यंदनं योजयस्व त्वं तुरगैः साधुभिः शिवैः । सेनाध्यक्षं समाहूय इत्युवाच समातुरः
सज्जतां मम सैन्यं त्वं शूरान्नागान्प्रकल्पय । सारोहैस्तुरगान्योधान्पताकाच्छत्रचामरैः
चतुरंगबलं मेऽद्य योजयस्व हि सत्वरम् । एवमाकर्ण्य तत्तस्य हुंडस्यापि ततो लघुः
सेनाध्यक्षो महाप्राज्ञः सर्वं चक्रे यथाविधि । चतुरंगेन तेनासौ बलेन महता वृतः
जगाम नहुषं वीरं चापबाणधरं रणे । इंद्रस्य स्यंदने युक्तं सर्वशस्त्रभृतां वरम्
उद्यंतं समरे वीरं दुरापं देवदानवैः । पश्यंति गगने देवा विमानस्था महौजसः
तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम् । सूत उवाच- अथ ते दानवाः सर्वे ववृषुस्तं शरोत्तमैः
खड्गैः पाशैर्महाशूलैः शक्तिभिस्तु परश्वधैः । युयुधुः संयुगे तेन नहुषेण महात्मना
संरब्धा गर्जमानास्ते यथा मेघा गिरौ तथा । तद्विक्रमं समालोक्य आयुपुत्रः प्रतापवान्
इंद्रायुधसमं चापं विस्फार्य स गुणस्वरम् । वज्रस्फोटसमः शब्दश्चापस्यापि महात्मनः
नहुषेण कृतो विप्रा दानवानां भयप्रदः । महता तेन घोषेण दानवाः प्रचकंपिरे
कश्मलाविष्टहृदया भग्नसत्वा महाहवे
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने चतुर्दशाधिकशततमोऽध्यायः
कुंजल उवाच- ततस्त्वसौ संयति राजमानः समुद्यतश्चापधरो महात्मा । यथैव कालः कुपितः सलोकान्संहर्तुमैच्छत्तु तथा सुदानवान्
महास्त्रजालै रवितेजतुल्यैः सुदीप्तिमद्भिर्निजघान दानवान् । वायुर्यथोन्मूलयतीह पादपांस्तथैव राजा निजघान दानवान्
वायुर्यथा मेघचयं च दिव्यं संचालयेत्स्वेन बलेन तेजसा । तथा स राजा असुरान्मदोत्कटाननाशयद्बाणवरैः सुतीक्ष्णैः
न शेकुर्दानवाः सर्वे बाणवर्षं महात्मनः । मृताः केचिद्द्रुताः केचित्केचिन्नष्टा महाहवात्
सूत उवाच- महातेजं महाप्राज्ञं महादानवनाशनम् । चुक्रोध हुंडो दुष्टात्मा दृष्ट्वा तं नृपनंदनम्
स्थितो गत्वेदमाभाष्य तिष्ठतिष्ठेति चाहवे । त्वामद्य च नयिष्यामि आयुपुत्र यमांतिकम्
नहुष उवाच- स्थितोस्मि समरे पश्य त्वामहं हंतुमागतः । अहं त्वां तु हनिष्यामि दानवं पापचेतनम्
इत्युक्त्वा धनुरादाय बाणानग्निशिखोपमान् । छत्रेण ध्रियमाणेन शुशुभे सोऽपि संयुगे
इंद्रस्य सारथिं दिव्यं मातलिं वाक्यमब्रवीत् । वाहयतु रथं मेऽद्य हुंडस्य सम्मुखं भवान्
इत्युक्तस्तेन वीरेण मातलिर्लघुविक्रमः । तुरगांश्चोदयामास महावातजवोपमान्
उत्पेतुश्च ततो वाहा हंसा इव यथांबरे । छत्रेण इंदुवर्णेन रथेनापि पताकिना
नभस्तलं तु संप्राप्य यथा सूर्यो विराजते । आयुपुत्रस्तथा संख्ये तेजसा विक्रमेण तु
अथ हुंडो रथस्थोऽपि राजमानः स्वतेजसा । सर्वायुधैश्च संयुक्तस्तद्वद्वीरव्रते स्थितः