रथेन साश्वसूतेन दिव्येन परितिष्ठति । धनुषा दिव्यबाणैस्तु सभायां हि भयंकरः
कस्य केन तु कार्येण प्रेषितः केन वैभवान् । अनया रंभया तेऽद्य अन्यया शिवकन्यया
किमुक्तं तत्स्फुटं सर्वं कथयस्व ममाग्रतः । हुंडस्य देवमर्दस्य न बिभेति भवान्कथम्
एतन्मे सर्वमाचक्ष्व यदि जीवितुमिच्छसि । सत्वरं गच्छ मा तिष्ठ दुःसहो दानवाधिपः
नहुष उवाच- योऽसावायुर्बली राजा सप्तद्वीपाधिपः प्रभुः । तस्य मां तनयं विद्धि सर्वदैत्यविनाशनम्
नहुषं नाम विख्यातं देवब्राह्मणपूजकम् । हुंडेनापहृतं बाल्ये स्वामिना तव दानव
सेयं कन्या शिवस्यापि दैत्येनापहृता पुरा । घोरं तपश्चरत्येषा हुंडस्यापि वधाय च
योहमादौ हृतो बालस्त्वया यः सूतिकागृहात् । दास्या अपि करे दत्तः सूदस्यापि दुरात्मना
वधार्थं श्रूयतां पाप सोहमद्य समागतः । अस्यापि हुंडदैत्यस्य दुष्टस्य पापकर्मणः
अन्यांश्च दानवान्घोरान्नयिष्ये यमसादनम् । मामेवं विद्धि पापिष्ठ एवं कथय दानवम्
एवमाकर्ण्य तत्सर्वं नहुषस्य महात्मनः । गत्वा हुंडं स दुष्टात्मा आचचक्षेऽस्य भाषितम्
निशम्य तन्मुखात्तूर्णं चुक्रोध दितिजेश्वरः । कस्मात्सूदेन पापेन तया दास्या न घातितः
सोयं वृद्धिं समायातो मया व्याधिरुपेक्षितः । अथैनं घातयिष्यामि अनया शिवकन्यया
आयोः पुत्रं खलं युद्धे बाणैरेभिः शिलाशितैः । एवं सचिंतयित्वा तु सारथिं वाक्यमब्रवीत्
स्यंदनं योजयस्व त्वं तुरगैः साधुभिः शिवैः । सेनाध्यक्षं समाहूय इत्युवाच समातुरः
सज्जतां मम सैन्यं त्वं शूरान्नागान्प्रकल्पय । सारोहैस्तुरगान्योधान्पताकाच्छत्रचामरैः
चतुरंगबलं मेऽद्य योजयस्व हि सत्वरम् । एवमाकर्ण्य तत्तस्य हुंडस्यापि ततो लघुः
सेनाध्यक्षो महाप्राज्ञः सर्वं चक्रे यथाविधि । चतुरंगेन तेनासौ बलेन महता वृतः
जगाम नहुषं वीरं चापबाणधरं रणे । इंद्रस्य स्यंदने युक्तं सर्वशस्त्रभृतां वरम्
उद्यंतं समरे वीरं दुरापं देवदानवैः । पश्यंति गगने देवा विमानस्था महौजसः
तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम् । सूत उवाच- अथ ते दानवाः सर्वे ववृषुस्तं शरोत्तमैः
खड्गैः पाशैर्महाशूलैः शक्तिभिस्तु परश्वधैः । युयुधुः संयुगे तेन नहुषेण महात्मना
संरब्धा गर्जमानास्ते यथा मेघा गिरौ तथा । तद्विक्रमं समालोक्य आयुपुत्रः प्रतापवान्
इंद्रायुधसमं चापं विस्फार्य स गुणस्वरम् । वज्रस्फोटसमः शब्दश्चापस्यापि महात्मनः
नहुषेण कृतो विप्रा दानवानां भयप्रदः । महता तेन घोषेण दानवाः प्रचकंपिरे
कश्मलाविष्टहृदया भग्नसत्वा महाहवे
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने चतुर्दशाधिकशततमोऽध्यायः
कुंजल उवाच- ततस्त्वसौ संयति राजमानः समुद्यतश्चापधरो महात्मा । यथैव कालः कुपितः सलोकान्संहर्तुमैच्छत्तु तथा सुदानवान्
महास्त्रजालै रवितेजतुल्यैः सुदीप्तिमद्भिर्निजघान दानवान् । वायुर्यथोन्मूलयतीह पादपांस्तथैव राजा निजघान दानवान्
वायुर्यथा मेघचयं च दिव्यं संचालयेत्स्वेन बलेन तेजसा । तथा स राजा असुरान्मदोत्कटाननाशयद्बाणवरैः सुतीक्ष्णैः