एवं विपर्ययश्चासीन्मनसो मे वरावने । तन्मे त्वं कारणं ब्रूहि यद्यस्ति ज्ञानमुत्तमम्
आयुपुत्रस्य भार्याहं देवैः सृष्टा महात्मभिः । कस्मान्मे धावते चेत उत्सुकं रंतुमेव च
रंभोवाच- सर्वेष्वेव महाभागे देहरूपेषु भामिनि । वसत्यात्मा स्वयं ब्रह्मज्ञानरूपः सनातनः
यद्यपि प्रक्रियाबद्धैरिंद्रियैरुपकारिभिः । मोहपाशमयैर्बद्धस्तथा सिद्धस्तु सर्वदा
प्रकृतिं नैव जानाति ज्ञानविज्ञानकीं कलाम् । अयं शुद्धश्च धर्मज्ञ आत्मा वेत्ति च सुंदरि
गच्छंत्यपि मनस्तापमेनं दृष्ट्वा महामतिम् । पापमेवं परित्यज्य सत्यमेवं प्रधावति
भर्तायमायुपुत्रस्ते एतत्सत्यं न संशयः । अन्यं दृष्ट्वा विशंकेत पुरुषं पापलक्षणम्
एवं विधिः कृतो देवैः सत्यपाशेन बंधितः । यदस्या आयुपुत्रोपि भर्तृत्वमुपयास्यति
एवमाकर्णितं भद्रे आत्मना तं च सुंदरि । तद्भावसत्यसंबंधं परिगृह्य स्थितः स्वयम्
अन्यं भावं न जानाति आयुपुत्रं च विंदति । प्रकृतिर्नैव ते देवि पतिं जानाति चागतम्
एवं ज्ञात्वा प्रधानात्मा तवाद्यैव प्रधावति । आत्मा सर्वं प्रजानाति आत्मा देवः सनातनः
अयमेष स वीरेंद्रो नहुषो नाम वीर्यवान् । तस्माद्गच्छति चेतस्ते सत्यं संबंधमिच्छते
ज्ञात्वा चायोः सुतं भद्रे अन्यं चैव न गच्छति । एतत्ते सर्वमाख्यातं शाश्वतं त्वन्मनोगतम्
हुंडं हत्वा महाघोरं समरे दानवाधमम् । त्वां नयिष्यति स्वस्थानमायोश्च गृहमुत्तमम्
हृतो दैत्येन वीरेंद्रो निजपुण्येन शेषितः । बाल्यात्प्रभृति वीरेंद्रो वियुक्तः स्वजनेन वै
पितृमातृविहीनस्तु गतो वृद्धिं महावने । यास्यत्येव पितुर्गेहं त्वयैव सह सांप्रतम्
एवमाभाषितं श्रुत्वा रंभायाः शिवनंदिनी । हर्षेण महताविष्टा तामुवाच समुद्रजाम्
अयमेव स सत्यात्मा मम भर्ता सुवीर्यवान् । मनो मे धावतेऽत्यर्थं शोकाकुलितविह्वलम्
नास्ति चित्तसमो देवो जानाति सुविनिश्चितम् । सत्यमेतन्मया दृष्टं सुचित्रं चारुहासिनि
मनोभवसमानं तु पुरुषं दिव्यलक्षणम् । न धावति महाचेत एनं दृष्ट्वा यथा सखि
तथा न धावते भद्रे पुंसमन्यं न मन्यते । एनं गंतव्यमावाभ्यां सखीभिर्गृहमेव हि
एवमाभाष्य सा रंभा गमनायोपचक्रमे । गमनायोत्सुकां ज्ञात्वा नहुषस्यांतिकं प्रति
तामुवाच ततो रंभा कस्माद्देवि न गम्यते । सूत उवाच- सख्या च रंभया सार्द्धं नहुषं वीरलक्षणम्
तस्यांतिकं सुसंप्राप्य प्रेषयामास तां सखीम् । एनं गच्छ महाभागे नहुषं देवरूपिणम्
कथयस्व कथामेतां तवार्थे आगता यतः । रंभोवाच-। एवं सखि करिष्यामि सुप्रियं तव सुव्रते
एवमुक्त्वा गता रंभा नहुषं राजनंदनम् । चापबाणधरं वीरं द्वितीयमिव वासवम्
प्रत्युवाच गता रंभा सख्या वचनमुत्तमम् । आयुपुत्र महाभाग रंभाहंसमुपागता
शिवस्य कन्यया वीर तयाहं परिप्रेषिता । तवार्थं देवदेवेन देव्या देवेन वै पुरा
भार्यारूपं वरं श्रेष्ठं सृष्टं लोकेषु दुर्लभम् । दुष्प्राप्यं तु नरश्रेष्ठैर्देवै सेंद्रैस्तपोधनैः
गंधर्वैः पन्नगैः सिद्धैश्चारणैः पुण्यलक्षणैः । स्वयमेव समायातं तवार्थे शृणु सांप्रतम्