अन्यैश्चैव महारत्नैर्गजाश्वैश्च विराजितम् । सुनारीभिः समाकीर्णं पुरुषैश्च महाप्रभैः
नानाप्रभावैर्दिव्यैश्च शोभमानं महोदयम् । राजश्रेष्ठो महावीरो नहुषो ददृशे पुरम्
पुरप्रांते वनं दिव्यं दिव्यवृक्षैरलंकृतम् । तद्विवेश महावीरो नंदनं हि यथाऽमरः
रथेन सह धर्मात्मा तेन मातलिना सह । प्रविष्टः स तु राजेंद्रो वनमध्ये सरित्तटे
तत्र ता रूपसंयुक्ता दिव्या नार्यः समागताः । गंधर्वा गीततत्त्वज्ञा जगुर्गीतैर्नृपोत्तमम्
सूताश्च मागधाः सर्वे तं स्तुवंति नृपोत्तमम् । राजानमायुपुत्रं तं भ्राजमानं यथा रविम्
शुश्राव गीतं मधुरं नहुषः किन्नरेरितम्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने एकादशाधिकशततमोऽध्यायः
कुंजल उवाच- तदेव गानं च सुरांगनाभिर्गीतं समाकर्ण्य च गीतकैर्ध्रुवैः । समाकुला चापि बभूव तत्र सा शंभुपुत्री परिचिंतयाना
आसनात्तूर्णमुत्थाय महोत्साहेन संयुता । तूर्णं गता वरारोहा तपोभावसमन्विता
तं दृष्ट्वा देवसंकाशं दिव्यरूपसमप्रभम् । दिव्यगंधानुलिप्तांगं दिव्यमालाभिशोभितम्
दिव्यैराभरणैर्वस्त्रैः शोभितं नृपनंदनम् । दीप्तिमंतं यथा सूर्यं दिव्यलक्षणसंयुतम्
किं वा देवो महाप्राज्ञो गंधर्वो वा भविष्यति । किं वा नागसुतः सोयं किंवा विद्याधरो भवेत्
देवेषु नैव पश्यामि कुतो यक्षेषु जायते । अनया लीलया वीरः सहस्राक्षोपि जायते
शंभुरेष भवेत्किंवा किंवा चायं मनोभवः । किंवा पितुः सखा मे स्यात्पौलस्त्योऽयं धनाधिपः
एवं समा चिंतयती च यावत्तावत्त्वरं रूपगुणाधिपा सा । समेत्य रंभासु महासखीभिरुवाच तां शंभुसुतां प्रहस्य
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने द्वादशाधिकशततमोऽध्यायः
रंभोवाच- तप एतत्परित्यज्य किंवा लोकयसे शुभे । तपसः क्षरणं स्याद्वै पुरुषस्यापि चिंतनात्
अशोकसुंदर्युवाच- तपसि मे मनो लीनं नहुषस्यापि काम्यया । न मां चालयितुं शक्ता देवासुरमहोरगाः
एनं दृष्ट्वा महाभागे मे मनश्चलते भृशम् । रंतुमिच्छाम्यहं गत्वा एवमुत्सुकतां गतम्
एवं विपर्ययश्चासीन्मनसो मे वरावने । तन्मे त्वं कारणं ब्रूहि यद्यस्ति ज्ञानमुत्तमम्
आयुपुत्रस्य भार्याहं देवैः सृष्टा महात्मभिः । कस्मान्मे धावते चेत उत्सुकं रंतुमेव च
रंभोवाच- सर्वेष्वेव महाभागे देहरूपेषु भामिनि । वसत्यात्मा स्वयं ब्रह्मज्ञानरूपः सनातनः
यद्यपि प्रक्रियाबद्धैरिंद्रियैरुपकारिभिः । मोहपाशमयैर्बद्धस्तथा सिद्धस्तु सर्वदा
प्रकृतिं नैव जानाति ज्ञानविज्ञानकीं कलाम् । अयं शुद्धश्च धर्मज्ञ आत्मा वेत्ति च सुंदरि
गच्छंत्यपि मनस्तापमेनं दृष्ट्वा महामतिम् । पापमेवं परित्यज्य सत्यमेवं प्रधावति
भर्तायमायुपुत्रस्ते एतत्सत्यं न संशयः । अन्यं दृष्ट्वा विशंकेत पुरुषं पापलक्षणम्
एवं विधिः कृतो देवैः सत्यपाशेन बंधितः । यदस्या आयुपुत्रोपि भर्तृत्वमुपयास्यति
एवमाकर्णितं भद्रे आत्मना तं च सुंदरि । तद्भावसत्यसंबंधं परिगृह्य स्थितः स्वयम्
अन्यं भावं न जानाति आयुपुत्रं च विंदति । प्रकृतिर्नैव ते देवि पतिं जानाति चागतम्