देवेभ्यो नृपशार्दूलो जगृहे द्विजसत्तम । तानि दिव्यानि चास्त्राणि दिव्यरूपोपमोऽभवत्
अथ ता देवताः सर्वाः सहस्राक्षमथाब्रुवन् । स्यंदनो दीयतामस्मै नहुषाय सुरेश्वर
देवानां मतमाज्ञाय वज्रपाणिः स्वसारथिम् । आहूय मातलि तं तु आदिदेश ततो द्विज
एनं गच्छ महात्मानमुह्यतां स्यंदनेन वै । सध्वजेन महाप्राज्ञमायुजं समरोद्यतम्
स चोवाच सहस्राक्षं करिष्ये तवशासनम् । एवमुक्त्वा जगामाशु ह्यायुपुत्रं रणोद्यतम्
राजानं प्रत्युवाचैव देवराजस्य भाषितम् । विजयी भव धर्मज्ञ रथेनानेन संगरे
इत्युवाच सहस्राक्षस्त्वामेव नृपतीश्वर । जहि त्वं दानवं संख्ये तं हुंडं पापचेतनम्
समाकर्ण्य स राजेंद्र सानंदपुलकोद्गमः । प्रसादाद्देवदेवस्य वशिष्ठस्य महात्मनः
दानवं सूदयिष्यामि समरे पापचेतनम् । देवानां च विशेषेण मम मायापचारितम्
एवमुक्ते महावाक्ये नहुषेण महात्मना । अथायातः स्वयं देवः शंखचक्रगदाधरः
चक्राच्चक्रं समुत्पाट्य सूर्यबिंबोपमं महत् । ज्वलता तेजसा दीप्तं सुवृत्तारं शुभावहम्
नहुषाय ददौ देवो हर्षेण महता किल । तस्मै शूलं ददौ शंभुः सुतीक्ष्णं तेजसान्वितम्
तेन शूलवरेणासौ शोभते समरोद्यतः । द्वितीयः शंकरश्चासौ त्रिपुरघ्नो यथा प्रभुः
ब्रह्मास्त्रं दत्तवान्ब्रह्मा वरुणः पाशमुत्तमम् । चंद्र तेजःप्रतीकाशं शंखं च नादमंगलम्
वज्रमिंद्रस्तथा शक्तिं वायुश्चापं समार्गणम् । आग्नेयास्त्रं तथा वह्निर्ददौ तस्मै महात्मने
शस्त्राण्यस्त्राणि दिव्यानि बहूनि विविधानि च । ददुर्देवा महात्मानस्तस्मै राज्ञे महौजसे
कुंजल उवाच- अथ आयुसुतो वीरो दैवतैः परिमानितः । आशीर्भिर्नंदितश्चापि मुनिभिस्तत्त्ववेदिभिः
आरुरोह रथं दिव्यं भास्वरं रत्नमालिनम् । घंटारवैः प्रणदंतं क्षुद्रघंटासमाकुलम्
रथेन तेन दिव्येन शुशुभे नृपनदंनः । दिविमार्गे यथा सूर्यस्तेजसा स्वेन वै किल
प्रतपंस्तेजसा तद्वद्दैत्यानां मस्तकेषु सः । जगाम शीघ्रं वेगेन यथा वायुः सदागतिः
यत्रासौ दानवः पापस्तिष्ठते स्वबलैर्युतः । तेन मातलिना सार्द्धं वाहकेन महात्मना
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने दशाधिकशततमोऽध्यायः
कुंजल उवाच- निर्गच्छमाने समराय वीरे नहुषे हि तस्मिन्सुरराज तुल्ये । सकौतुका मंगलगीतयुक्ताः स्त्रियस्तु सर्वाः परिजग्मुरत्र
देवतानां वरा नार्यो रंभाद्यप्सरसस्तथा । किन्नर्यः कौतुकोत्सुक्यो जगुः स्वरेण सत्तम
गंधर्वाणां तथा नार्यो रूपालंकारसंयुताः । कौतुकाय गतास्तत्र यत्र राजा स तिष्ठति
पुरं महोदयं नाम हुंडस्यापि दुरात्मनः । नंदनोपवनैर्दिव्यैः सर्वत्र समलंकृतम्
सप्तकक्षान्वितैर्गेहैः कलशैरुपशोभितः । सपताकैर्महादंडैः शोभमानं पुरोत्तमम्
कैलासशिखराकारैः सोन्नतैर्दिवमास्थितैः । सर्वश्रियान्वितैर्दिव्यैर्भ्राजमानं पुरोत्तमम्
वनैश्चोपवनैर्दिव्यैस्तडागैः सागरोपमैः । जलपूर्णैः सुशोभैस्तु पद्मै रक्तोत्पलान्वितैः
प्राकारैश्च महारत्नैरट्टालकशतैरपि । परिखाभिः सुपूर्णाभिर्जलैः स्वच्छैः प्रशोभितम्