तस्माच्च रक्षितो वीरो नहुषो बलिनां वरः । सत्येन तपसा तेन पुण्यैश्च संयमैर्दमैः
मा कृथा दारुणं दुःखं मुंच शोकमकारणम् । स हि जीवति धर्मात्मा मात्रा पित्रा विना वने
तपोवनेव सत्येकस्तपस्वि परिपालितः । वेदवेदांगतत्त्वज्ञो धनुर्वेदस्य पारगः
यथा शशी विराजेत स्वकलाभिः स्वतेजसा । तथा विराजते सोऽपि स्वकलाभिः सुमध्यमे
विद्याभिस्तु महापुण्यैस्तपोभिर्यशसा तथा । राजते परवीरघ्नो रिपुहा सुरवल्लभः
हुंडं निहत्य दैत्येंद्रं त्वामेवं हि प्रलप्स्यते । त्वया सार्द्धं स्त्रिया चैव पृथिव्यामेकभूपतिः
भविष्यति महायोगी यथा स्वर्गे तु वासवः । त्वं तस्मात्प्राप्स्यसे भद्रे सुपुत्रं वासवोपमम्
ययातिं नामधर्मज्ञं प्रजापालनतत्परम् । तथा कन्याशतं चापि रूपौदार्यगुणान्वितम्
यासां पुण्यैर्महाराज इंद्रलोकं प्रयास्यति । इंद्रत्वं भोक्ष्यते देवि नहुषः पुण्यविक्रमः
ययातिर्नाम धर्मात्मा आत्मजस्ते भविष्यति । प्रजापालो महाराजः सर्वजीवदयापरः
तस्य पुत्रास्तु चत्वारो भविष्यंति महौजसः । बलवीर्यसमोपेता धनुर्वेदस्य पारगाः
प्रथमश्च तुरुर्नाम पुरुर्नाम द्वितीयकः । उरुर्नाम तृतीयश्च चतुर्थो वीर्यवान्यदुः
एवं पुत्रा महावीर्यास्तेजस्विनो महाबलाः । भविष्यंति महात्मानः सर्वतेजः समन्विताः
यदोश्चैव सुता वीराः सिंहतुल्यपराक्रमाः । तेषां नामानि भद्रं ते गदतः शृणु सांप्रतम्
भोजश्च भीमकश्चापि अंधकः कुञ्जरस्तथा । वृष्णिर्नाम सुधर्मात्मा सत्याधारो भविष्यति
षष्ठस्तु श्रुतसेनश्च श्रुताधारस्तु सप्तमः । कालदंष्ट्रो महावीर्यः समरे कालजिद्बली
यदोः पुत्रा महावीर्या यादवाख्या वरानने । तेषां तु पुत्राः पौत्रास्ते भविष्यंति सहस्रशः
एवं नहुषवंशो वै तव देवि भविष्यति । दुःखमेवं परित्यज्य सुखेनानुप्रवर्तय
समेष्यति महाप्राज्ञस्तव भर्ता शुभानने । निहत्य दानवं हुंडं त्वामेवं परिणेष्यति
दुःखजातानि सोष्णानि नेत्राभ्यां हि पतंति च । अश्रूणि चेंदुमत्याश्च संमार्जयति मानदः
आयोश्च दुःखमुद्धृत्य स्वकुलं तारयिष्यति । सुखिनं पितरं कृत्वा प्रजापालो भविष्यति
एतत्ते सर्वमाख्यातं देवानां कथनं शुभे । दुःखं शोकं परित्यज्य सुखेन परिवर्त्तय
अशोकसुंदर्युवाच- कदा ह्येष्यति मे भर्त्ता विहितो दैवतैर्यदि । सत्यं वद स्वधर्मज्ञ मम सौख्यं विवर्द्धय
विद्वर उवाच- अचिराद्द्रक्ष्यसि भर्तारं त्वमेवं शृणु सुंदरि । एवमुक्त्वा जगामाथ गंधर्वो विबुधालयम्
अशोकसुंदरी सा च तपस्तेपे हि तत्र वै । कामं क्रोधं परित्यज्य लोभं चापि शिवात्मजा
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्याने नवाधिकशततमोऽध्यायः
कुंजल उवाच- आमंत्र्य स मुनीन्सर्वान्वशिष्ठं तपतांवरम् । समुत्सुको गंतुकामो नहुषो दानवं प्रति
ततस्ते मुनयः सर्वे वशिष्ठाद्यास्तपोधनाः । आशीर्भिरभिनंद्यैनमायुपुत्रं महाबलम्
आकाशे देवताः सर्वा जघ्नुर्वै दुंदुभीन्मुदा । पुष्पवृष्टिं प्रचक्रुस्ते नहुषस्य च मूर्धनि
अथ देवः सहस्राक्षः सुरैः सार्द्धं समागतः । ददौ शस्त्राणि चास्त्राणि सूर्यतेजोपमानि च