तामुवाच विशालाक्षीं प्रहस्यैव पुनः पुनः । अद्यैव भक्षितं मांसमायुपुत्रस्य सुंदरि
जातमात्रस्य बालस्य नहुषस्य दुरात्मनः । एवमाकर्ण्य सा वाक्यं कोपं चक्रे सुदारुणम्
प्रोवाच सत्यसंस्था सा तपसा भाविता पुनः । तप एव मया तप्तं मनसा नियमेन वै । आयुसुतश्चिरायुश्च सत्येनैव भविष्यति
इतो गच्छ दुराचार यदि जीवितुमिच्छसि । अन्यथा त्वामहं शप्स्ये पुनरेव न संशयः
एवमाकर्णितं तस्याः सूदेन नृपतिं प्रति । परित्यज्य महाराज एतामन्यां समाश्रय
सूदेन प्रेषितो दैत्यः स हुंडः पापचेतनः । निर्जगाम त्वरायुक्तः स स्वां भार्यां प्रियां प्रति
चेष्टितं नैव जानाति दास्या सूदेन यत्कृतम् । तस्यै निवेदितं सर्वं प्रियायै वृत्तमेव च
सूत उवाच- अशोकसुंदरी सा च महता तपसा किल । दुःखशोकेन संतप्ता कृशीभूता तपस्विनी
चिंतयंती प्रियं कांतं तं ध्यायति पुनः पुनः । किं न कुर्वंति वै दैत्या उपायैर्विविधैरपि
उपायज्ञाः सदा बुद्ध्या उद्यमेनापि सर्वदा । वर्तंते दनुजश्रेष्ठा नानाभावैश्च सर्वदा
मायोपायेन योगेन हृताहं पापिना पुरा । तथा स घातितः पुत्र आयोश्चैव भविष्यति
यं दृष्ट्वा दैवयोगेन भवितारमनामयम् । उद्यमेनापि पश्येत किं वा नश्यति वा न वा
किं वा स उद्यमः श्रेष्ठः किं वा तत्कर्मजं फलम् । भाविभावः कथं नश्येत्ततो वेदः प्रतिष्ठति
विशेषो भावितो देवैः स कथं चान्यथा भवेत् । एवमेवं महाभागा चिंतयंती पुनः पुनः
किन्नरो विद्वरो नाम बृहद्वंशोमहातनुः । सनाभ्योर्धनरः कायः पक्षाभ्यां हि विवर्जितः
द्विभुजो वंशहस्तस्तु हारकंकणशोभितः । दिव्यगंधानुलिप्तांगो भार्यया सह चागतः
तामुवाच निरानंदां स सुतां शंकरस्यहि । किमर्थं चिंतसे देवि विद्वरं विद्धि चागतम्
किन्नरं विष्णुभक्तं मां प्रेषितं देवसत्तमैः । दुःखमेवं न कर्तव्यं भवत्या नहुषं प्रति
हुंडेन पापचारेण वधार्थं तस्य धीमतः । कृतमेवाखिलं कर्म हृतश्चायुसुतः शुभे
स तु वै रक्षितो देवैरुपायैर्विविधैरपि । हुंड एवं विजानाति आयुपुत्रो हृतो मया
भक्षितस्तु विशालाक्षि इति जानाति वै शुभे । भवतां श्रावयित्वा हि गतोसौ दानवोऽधमः
स्वेनकर्मविपाकेन पुण्यस्यापि महायशाः । पूर्वजन्मार्जितेनैव तव भर्त्ता स जीवति
पुण्यस्यापि बलेनैव येषामायुर्विनिर्मितम् । स्वर्जितस्य महाभागे नाशमिच्छंति घातकाः
दुष्टात्मानो महापापाः परतेजोविदूषकाः । तेषां यशोविनाशार्थं प्रपंचंति दिने दिने
नानाविधैरुपायैस्ते विषशस्त्रादिभिस्ततः । हंतुमिच्छंति तं पुण्यं पुण्यकर्माभिरक्षितम्
पापिनश्चैव हुंडाद्या मोहनस्तंभनादिभिः । पीडयंति महापापा नानाभेदैर्बलाविलैः
सुकृतस्य प्रयोगेण पूर्वजन्मार्जितेन हि । पुण्यस्यापि महाभागे पुण्यवंतं सुरक्षितम्
वैफल्यं यांति तेषां वै उपायाः पापिनां शुभे । यंत्रतंत्राणि मंत्राश्च शस्त्राग्निविषबंधनाः
रक्षयंति महात्मानं देवपुण्यैः सुरक्षितम् । कर्तारो भस्मतां यांति स वै तिष्ठति पुण्यभाक्
आयुपुत्रस्य वीरस्य रक्षका देवताः शुभे । पुण्यस्य संचयं सर्वे तपसां निधिमेव तु