नहुषो नाम मेधावी भविष्यति न संशयः । देवदत्तो महातेजा अन्यथा त्वं करिष्यसि
ततः शाप्रं पदास्यामि येन भस्मी भविष्यसि । एवमाकर्ण्य तद्वाक्यं कामबाणैः प्रपीडितः
व्याजेनापि हृता तेन प्रणीता निजमंदिरे । ज्ञात्वा तया महाभाग शप्तोऽसौ दानवाधमः
नहुषस्यैव हस्तेन तव मृत्युर्भविष्यति । अजाते त्वयि संजाता वदसे त्वं यथैव तत्
स त्वमायुसुतो वीर हृतो हुंडेन पापिना । सूदेन रक्षितो दास्या प्रेषितो मम चाश्रमम्
भवंतं वनमध्ये च दृष्ट्वा चारणकिन्नरैः । यत्तु वै श्रावितं वत्स मया ते कथितं पुनः
जहि तं पापकर्तारं हुंडाख्यं दानवाधमम् । नेत्राभ्यां हि प्रमुंचंतीमश्रूणि परिमार्जय
इतो गत्वा प्रपश्य त्वं गंगातीरं महाबलम् । निपात्य दानवेंद्रं तं कारागृहात्समानय
अशोकसुंदरी याहि तस्या भर्ता भवस्व हि । एतत्ते सर्वमाख्यातं प्रश्नस्यास्य हि कारणम्
आभाष्य नहुषं विप्रो विरराम महामतिः
आकर्ण्य सर्वं मुनिना प्रयुक्तमाश्चर्यभूतं स हि चिंत्यमानः । तस्यांतमेकः परिकर्तुकाम आयोः सुतः कोपमथो चकार
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्यानेऽष्टोत्तरशततमोऽध्यायः
कुंजल उवाच- प्रणिपत्य प्रसाद्यैव वशिष्ठं तपतां वरम् । आमंत्र्य निर्जगामाथ बाणपाणिर्धनुर्धरः
एणस्य मांसं सुविपाच्यभोजितं बालस्तया रक्षित एव बुद्ध्या । आयोः सुपुत्रः सगुणः सुरूपो देवोपमो देवगुणैश्च युक्तः
तेनैव मांसेन सुसंस्कृतेन मृष्टेन पक्वेन रसानुगेन । तमेव दैत्यं परिभाष्य सूदो दुष्टं सुहर्षेण व्यभोजयत्तदा
बुभुजे दानवो मांसं रसस्वादुसमन्वितम् । हर्षेणापि समाविष्टो जगामाशोकसुंदरीम्
तामुवाच ततस्तूर्णं कामोपहतचेतनः । आयुपुत्रो मया भद्रे भक्षितः पतिरेव ते
मामेव भज चार्वंगि भुंक्ष्व भोगान्मनोनुगान् । किं करिष्यसि तेन त्वं मानुषेण गतायुषा
प्रत्युवाच समाकर्ण्य शिवकन्या तपस्विनी । भर्ता मे दैवतैर्दत्तो अजरो दोषवर्जितः
तस्य मृत्युर्न वै दृष्टो देवैरपि महात्मभिः । एवमाकर्ण्य तद्वाक्यं दानवो दुष्टचेष्टितः
तामुवाच विशालाक्षीं प्रहस्यैव पुनः पुनः । अद्यैव भक्षितं मांसमायुपुत्रस्य सुंदरि
जातमात्रस्य बालस्य नहुषस्य दुरात्मनः । एवमाकर्ण्य सा वाक्यं कोपं चक्रे सुदारुणम्
प्रोवाच सत्यसंस्था सा तपसा भाविता पुनः । तप एव मया तप्तं मनसा नियमेन वै । आयुसुतश्चिरायुश्च सत्येनैव भविष्यति
इतो गच्छ दुराचार यदि जीवितुमिच्छसि । अन्यथा त्वामहं शप्स्ये पुनरेव न संशयः
एवमाकर्णितं तस्याः सूदेन नृपतिं प्रति । परित्यज्य महाराज एतामन्यां समाश्रय
सूदेन प्रेषितो दैत्यः स हुंडः पापचेतनः । निर्जगाम त्वरायुक्तः स स्वां भार्यां प्रियां प्रति
चेष्टितं नैव जानाति दास्या सूदेन यत्कृतम् । तस्यै निवेदितं सर्वं प्रियायै वृत्तमेव च
सूत उवाच- अशोकसुंदरी सा च महता तपसा किल । दुःखशोकेन संतप्ता कृशीभूता तपस्विनी
चिंतयंती प्रियं कांतं तं ध्यायति पुनः पुनः । किं न कुर्वंति वै दैत्या उपायैर्विविधैरपि
उपायज्ञाः सदा बुद्ध्या उद्यमेनापि सर्वदा । वर्तंते दनुजश्रेष्ठा नानाभावैश्च सर्वदा