भोजयित्वा सुदैत्येंद्रो हुंडो हृष्टोभवत्तदा । शापमशोकसुंदर्या मोघं मेने तदासुरः
हर्षेण महताविष्टः स हुंडो दानवेश्वरः । कुंजल उवाच- प्रभाते विमले जाते वशिष्ठो मुनिसत्तमः
बहिर्गतो हि धर्मात्मा कुटीद्वारात्प्रपश्यति । संपूर्णं बालकं दृष्ट्वा दिव्यलक्षणसंयुतम्
संपूर्णेंदुप्रतीकाशं सुंदरं चारुलोचनम् । वशिष्ठ उवाच- पश्यंतु मुनयः सर्वे यूयमागत्य बालकम्
कस्य केन समानीतं रात्रौ द्वारांगणे मम । देवगंधर्वगर्भाभं राजलक्षणसंयुतम्
कंदर्पकोटिसंकाशं पश्यंतु मुनयोऽमलम् । महाकौतुकसंयुक्ता हृष्टा द्विजवरास्ततः
समपश्यन्सुतं ते तु आयोश्चैव महात्मनः । वशिष्ठः स तु धर्मात्मा ज्ञानेनालोक्य बालकम्
आयुपुत्रं समाज्ञातं चरित्रेण समन्वितम् । वृत्तांतं तस्य दुष्टस्य हुण्डस्यापि दुरात्मनः
कृपया ब्रह्मपुत्रस्तु समुत्थाय सुबालकम् । कराभ्यामथ गृह्णाति यावद्द्विजो वरोत्तमः
तावत्पुष्पसुवृष्टिं च चक्रुर्देवाः सुतोपरि । ललितं सुस्वरं गीतं जगुर्गंधर्वकिन्नराः
ऋषयो वेदमंत्रैस्तु स्तुवंति नृपनंदनम् । वशिष्ठस्तं समालोक्य वरं वै दत्तवांस्तदा
नहुषेत्येव ते नाम ख्यातं लोके भविष्यति । हुषितो नैव तेनापि बालभावैर्नराधिप
तस्मान्नहुष ते नाम देवपूज्यो भविष्यसि। जातकर्मादिकं कर्म तस्य चक्रे द्विजोत्तमः
व्रतदानं विसर्गं च गुरुशिष्यादिलक्षणम्। वेदं चाधीत्य संपूर्णं षडंगं सपदक्रमम्
सर्वाण्येव च शास्त्राणि अधीत्य द्विजसत्तमात्। वशिष्ठाच्च धनुर्वेदं सरहस्यं महामतिः
शस्त्राण्यस्त्राणि दिव्यानि ग्राहमोक्षयुतानि च। ज्ञानशास्त्रादिकं न्याय राजनीतिगुणादिकान्
वशिष्ठादायुपुत्रश्च शिष्यरूपेण भक्तिमान्। एवं स सर्वनिष्पन्नो नाहुषश्चातिसुंदरः
वशिष्ठस्य प्रसादाच्च चापबाणधरोभवत्
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे पंचोत्तरशततमोऽध्यायः
कुंजल उवाच- आयुभार्या महाभागा स्वर्भानोस्तनया सुतम् । अपश्यंती सुबालं तं देवोपममनौपमम्
हाहाकारं महत्कृत्वा रुरोद वरवर्णिनी । केन मे लक्षणोपेतो हृतो बालः सुलक्षणः
तपसा दानयज्ञैश्च नियमैर्दुष्करैः सुतः । संप्राप्तो हि मया वत्स कष्टैश्च दारुणैः पुनः
दत्तात्रेयेण पुण्येन संतुष्टेन महात्मना । दत्तः पुत्रो हृतः केन रुरोद करुणान्विता
हा पुत्र वत्स मे तात हा बालगुणमंदिर । क्वासि केनापनीतोसि मम शब्दः प्रदीयताम्
सोमवंशस्य सर्वस्य भूषणोसि न संशयः । केन त्वमपनीतोसि मम प्राणैः समन्वितः
राजसुलक्षणैर्दिव्यैः संपूर्णः कमलेक्षणः । केनाद्यापहृतो वत्सः किं करोमि क्व याम्यहम्
स्फुटं जानाम्यहं कर्म ह्यन्यजन्मनि यत्कृतम् । न्यासनाशः कृतः कस्य तस्मात्पुत्रो हृतो मम
किं वा छलं कृतं कस्य पूर्वजन्मनि पापया । कर्मणस्तस्य वै दुःखमनुभुंजामि नान्यथा
रत्नापहारिणी जाता पुत्ररत्नं हृतं मम । तस्माद्दैवेन मे दिव्य अनौपम्य गुणाकरः
किं वा वितर्कितो विप्रः कर्मणस्तस्य वै फलम् । प्राप्तं मया न संदेहः पुत्रशोकान्वितं भृशम्