इंदुमत्या गृहं हृष्टः प्रविवेश श्रियान्वितम् । सर्वकामसमृद्धार्थमिंद्रस्य सदनोपमम्
राज्यं चक्रे स मेधावी यथा स्वर्गे पुरंदरः । स्वर्भानुसुतया सार्द्धमिंदुमत्या द्विजोत्तम
सा च इंदुमती राज्ञी गर्भमाप फलाशनात् । दत्तात्रेयस्य वचनाद्दिव्यतेजः समन्वितम्
इंदुमत्या महाभाग स्वप्नं दृष्टमनुत्तमम् । रात्रौ दिवान्वितं तात बहुमंगलदायकम्
गृहांतरे विशंतं च पुरुषं सूर्यसन्निभम् । मुक्तामालान्वितं विप्रं श्वेतवस्त्रेणशोभितम्
श्वेतपुष्पकृतामाला तस्य कंठे विराजते । सर्वाभरणशोभांगो दिव्यगंधानुलेपनः
चतुर्भुजः शंखपाणिर्गदाचक्रासिधारकः । छत्रेण ध्रियमाणेन चंद्रबिंबानुकारिणा
शोभमानो महातेजा दिव्याभरणभूषितः । हारकंकणकेयूर नूपुराभ्यां विराजितः
चंद्रबिंबानुकाराभ्यां कुंडलाभ्यां विराजितः । एवंविधो महाप्राज्ञो नरः कश्चित्समागतः
इंदुमतीं समाहूय स्नापिता पयसा तदा । शंखेन क्षीरपूर्णेन शशिवर्णेन भामिनी
रत्नकांचनबद्धेन संपूर्णेन पुनः पुनः । श्वेतं नागं सुरूपं च सहस्रशिरसं वरम्
महामणियुतं दीप्तं धामज्वालासमाकुलम् । क्षिप्तं तेन मुखप्रांते दत्तं मुक्ताफलं पुनः
कंठे तस्याः स देवेश इंदुमत्या महायशाः । पद्मं हस्ते ततो दत्वा स्वस्थानं प्रति जग्मिवान्
एवंविधं महास्वप्नं तया दृष्टं सुतोत्तमम् । समाचष्ट महाभागा आयुं भूमिपतीश्वरम्
समाकर्ण्य महाराजश्चिंतयामास वै पुनः । समाहूय गुरुं पश्चात्कथितं स्वप्नमुत्तमम्
शौनकं सुमहाभागं सर्वज्ञं ज्ञानिनां वरम् । राजोवाच- अद्य रात्रौ महाभाग मम पत्न्या द्विजोत्तम
विप्रो गेहं विशन्दृष्टः किमिदं स्वप्नकारणम् । शौनक उवाच- वरो दत्तस्तु ते पूर्वं दत्तात्रेयेण धीमता
आदिष्टं च फलं राज्ञां सुगुणं सुतहेतवे । तत्फलं किं कृतं राजन्कस्मै त्वया निवेदितम्
सुभार्यायै मया दत्तमिति राज्ञोदितं वचः । श्रुत्वोवाच महाप्राज्ञः शौनको द्विजसत्तमः
दत्तात्रेयप्रसादेन तव गेहे सुतोत्तमः । वैष्णवांशेन संयुक्तो भविष्यति न संशयः
स्वप्नस्य कारणं राजन्नेतत्ते कथितं मया । इंद्रोपेंद्र समः पुत्रो दिव्यवीर्यो भविष्यति
पुत्रस्ते सर्वधर्मात्मा सोमवंशस्य वर्द्धनः । धनुर्वेदे च वेदे च सगुणोसौ भविष्यति
एवमुक्त्वा स राजानं शौनको गतवान्गृहम् । हर्षेण महताविष्टो राजाभूत्प्रियया सह
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे चतुरधिकशततमोऽध्यायः
कुञ्जल उवाच- गता सा नन्दनवनं सखीभिः सह क्रीडितुम्। तत्राकर्ण्य महद्वाक्यमप्रियं तु तदा पितुः
चारणानां सुसिद्धानां भाषतां हर्षणेन तु। आयोर्गेहे महावीर्यो विष्णुतुल्यपराक्रमः
भविष्यति सुतश्रेष्ठो हुण्डस्यांतं करिष्यति । एवंविधं महद्वाक्यमप्रियं दुःखदायकम्
समाकर्ण्य समायाता पितुरग्रे निवेदितम् । समासेन तया तस्य पुरतो दुःखदायकम्
पितुरग्रे जगादाथ पिता श्रुत्वा स विस्मितः । शापमशोकसुंदर्याः सस्मार च पुराकृतम्
एतस्यार्थे तपस्तेपे सेयं चाशोकसुंदरी । गर्भस्य नाशनायैव इंदुमत्याः स दानवः