वारुण्या मत्त धर्मात्मा स्त्रीवृन्दैश्च समावृतः। अङ्के युवतिमाधाय सर्वयोषिद्वरां शुभाम्
गायते नृत्यते विप्रः सुरां च पिबते भृशम्। विना यज्ञोपवीतेन महायोगीश्वरोत्तमः
पुष्पमालाभिर्दिव्याभिर्मुक्ताहारपरिच्छदैः । चंदनागुरुदिग्धांगो राजमानो मुनीश्वरः
तस्याश्रमं नृपो गत्वा तं दृष्ट्वा द्विजसत्तमम् । प्रणाममकरोन्मूर्ध्ना दण्डवत्सुसमाहितः
अत्रिपुत्रः स धर्मात्मा समालोक्य नृपोत्तमम्। आगतं पुरतो भक्त्या अथ ध्यानं समास्थितः
एवं वर्षशतं प्राप्तं तस्य भूपस्य सत्तम। निश्चलं शान्तिमापन्नं मानसं भक्तितत्परम्
समाहूय उवाचेदं किमर्थं क्लिश्यसे नृप। ब्रह्माचारेण हीनोस्मि ब्रह्मत्वं नास्ति मे कदा
सुरामांसप्रलुब्धोऽस्मि स्त्रियासक्तः सदैव हि । वरदाने न मे शक्तिरन्यं शुश्रूष ब्राह्मणम्
"आयुरुवाच- भवादृशो महाभाग नास्ति ब्राह्मणसत्तमः। सर्वकामप्रदाता वै त्रैलोक्ये परमेश्वरः
अत्रिवंशे महाभाग गोविंदः परमेश्वरः। ब्राह्मणस्य स्वरूपेण भवान्वै गरुडध्वजः
नमोऽस्तु देवदेवेश नमोऽस्तु परमेश्वर। त्वामहं शरणं प्राप्तः शरणागतवत्सल
उद्धरस्व हृषीकेश मायां कृत्वा प्रतिष्ठसि । विश्वस्थानां प्रजानां तु विद्वांसंविश्वनायकम्
जानाम्यहं जगन्नाथं भवन्तं मधुसूदनम्। मामेव रक्ष गोविन्द विश्वरूप नमोस्तु ते
"कुञ्जल उवाच- गते बहुतिथे काले दत्तात्रेयो नृपोत्तमम्। उवाच मत्तरूपेण कुरुष्व वचनं मम
कपाले मे सुरां देहि पाचितं मांसभोजनम्। एवमाकर्ण्य तद्वाक्यं स चायुः पृथिवीपतिः
उत्सुकस्तु कपालेन सुरामाहृत्य वेगवान्। पलं सुपाचितं चैव च्छित्त्वा हस्तेन सत्वरम्
नृपेन्द्रः प्रददौ चापि दत्तात्रेयाय सत्तम। अथ प्रसन्नचेताः स संजातो मुनिपुङ्गवः
दृष्ट्वा भक्तिं प्रभावं च गुरुशुश्रूषणं परम्। समुवाच नृपेन्द्रं तमायुं प्रणतमानसम्
वरं वरय भद्रं ते दुर्लभं भुवि भूपते। सर्वमेव प्रदास्यामि यंयमिच्छसि साम्प्रतम्
"राजोवाच- भवान्दाता वरं सत्यं कृपया मुनिसत्तम। पुत्रं देहि गुणोपेतं सर्वज्ञं गुणसंयुतम्
देववीर्यं सुतेजं च अजेयं देवदानवैः। क्षत्रियै राक्षसैर्घोरैर्दानवैः किन्नरैस्तथा
देवब्राह्मणसम्भक्तः प्रजापालो विशेषतः। यज्वा दानपतिः शूरः शरणागतवत्सलः
दाता भोक्ता महात्मा च वेदशास्त्रेषु पण्डितः। धनुर्वेदेषु निपुणः शास्त्रेषु च परायणः
अनाहतमतिर्धीरः संग्रामेष्वपराजितः। एवं गुणः सुरूपश्च यस्माद्वञ्शः प्रसूयते
देहि पुत्रं महाभाग ममवंशप्रधारकम्। यदि चापि वरो देयस्त्वया मे कृपया विभो
"दत्तात्रेय उवाच- एवमस्तु महाभाग तव पुत्रो भविष्यति। गृहे वंशकरः पुण्यः सर्वजीवदयाकरः
एभिर्गुणैस्तु संयुक्तो वैष्णवांशेन संयुतः । राजा च सार्वभौमश्च इन्द्रतुल्यो नरेश्वरः
एवं खलु वरं दत्वा ददौ फलमनुत्तमम्। भूपमाह महायोगी सुभार्यायै प्रदीयताम्
एवमुक्त्वा विसृज्यैव तमायुं प्रणतं पुरः। आशीर्भिरभिनन्द्यैव अन्तर्द्धानमधीयत
कुंजल उवाच- गते तस्मिन्महाभागे दत्तात्रेये महामुनौ । आजगाम महाराज आयुश्च स्वपुरं प्रति